Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.128
जन्तूपाख्यानम्
सोमक उवाच॥
ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा। पुत्रकामतया सर्वं करिष्यामि वचस्तव ॥०३-१२८-१॥
लोमश उवाच॥
ततः स याजयामास सोमकं तेन जन्तुना। मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः ॥०३-१२८-२॥
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः। तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे ॥ सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ॥०३-१२८-३॥
कुररीणामिवार्तानामपाकृष्य तु तं सुतम्। विशस्य चैनं विधिना वपामस्य जुहाव सः ॥०३-१२८-४॥
वपायां हूयमानायां गन्धमाघ्राय मातरः। आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ॥ सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः ॥०३-१२८-५॥
ततो दशसु मासेषु सोमकस्य विशां पते। जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥०३-१२८-६॥
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत। स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः ॥०३-१२८-७॥
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे। तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः ॥०३-१२८-८॥
ततः स लोकमगमत्सोमकस्य गुरुः परम्। अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् ॥०३-१२८-९॥
अथ तं नरके घोरे पच्यमानं ददर्श सः। तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ॥०३-१२८-१०॥
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्। त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ॥०३-१२८-११॥
एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत्। अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ॥ मत्कृते हि महाभागः पच्यते नरकाग्निना ॥०३-१२८-१२॥
धर्म उवाच॥
नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन। इमानि तव दृश्यन्ते फलानि ददतां वर ॥०३-१२८-१३॥
सोमक उवाच॥
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्। इच्छाम्यहमनेनैव सह वस्तुं सुरालये ॥०३-१२८-१४॥
नरके वा धर्मराज कर्मणास्य समो ह्यहम्। पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ॥०३-१२८-१५॥
धर्म उवाच॥
यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम्। तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ॥०३-१२८-१६॥
लोमश उवाच॥
स चकार तथा सर्वं राजा राजीवलोचनः। पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् ॥ सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥०३-१२८-१७॥
एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते। क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ॥०३-१२८-१८॥
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः। षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह ॥०३-१२८-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.