03.129
श्येनकपोतीयम्
लोमश उवाच॥
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः। सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥०३-१२९-१॥
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु। यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ॥०३-१२९-२॥
देशो नाहुषयज्ञानामयं पुण्यतमो नृप। यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् ॥०३-१२९-३॥
सार्वभौमस्य कौन्तेय ययातेरमितौजसः। स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह ॥०३-१२९-४॥
पश्य नानाविधाकारैरग्निभिर्निचितां महीम्। मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥०३-१२९-५॥
एषा शम्येकपत्रा सा शरकं चैतदुत्तमम्। पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥०३-१२९-६॥
एतदार्चीकपुत्रस्य योगैर्विचरतो महीम्। अपसर्पणं महीपाल रौप्यायाममितौजसः ॥०३-१२९-७॥
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन। उलूखलैराभरणैः पिशाची यदभाषत ॥०३-१२९-८॥
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले। तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि ॥०३-१२९-९॥
एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि। एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा ॥०३-१२९-१०॥
अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम। द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत ॥०३-१२९-११॥
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्। ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात् ॥०३-१२९-१२॥
एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते। एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥०३-१२९-१३॥
अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः। यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् ॥०३-१२९-१४॥
अत्रैव भरतो राजा मेध्यमश्वमवासृजत्। असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् ॥०३-१२९-१५॥
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्। आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः ॥०३-१२९-१६॥
अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति। पूयते दुष्कृताच्चैव समुपस्पृश्य भारत ॥०३-१२९-१७॥
वैशम्पायन उवाच॥
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः। लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥०३-१२९-१८॥
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम। इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥०३-१२९-१९॥
लोमश उवाच॥
एवमेतन्महाबाहो पश्यन्ति परमर्षयः। सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् ॥०३-१२९-२०॥
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति। इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ॥ ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च ॥०३-१२९-२१॥
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना। कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥०३-१२९-२२॥