03.131
श्येन उवाच॥
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः। स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥०३-१३१-१॥
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा। मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि ॥०३-१३१-२॥
राजोवाच॥
सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज। मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः ॥०३-१३१-३॥
एवमभ्यागतस्येह कपोतस्याभयार्थिनः। अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि ॥०३-१३१-४॥
प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते। मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥०३-१३१-५॥
श्येन उवाच॥
आहारात्सर्वभूतानि सम्भवन्ति महीपते। आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥०३-१३१-६॥
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्। न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥०३-१३१-७॥
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते। विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् ॥०३-१३१-८॥
प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति। रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि ॥०३-१३१-९॥
धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत्। अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥०३-१३१-१०॥
विरोधिषु महीपाल निश्चित्य गुरुलाघवम्। न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् ॥०३-१३१-११॥
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये। यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥०३-१३१-१२॥
राजोवाच॥
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम। सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् ॥ तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे ॥०३-१३१-१३॥
न तेऽस्त्यविदितं किञ्चिदिति त्वा लक्षयाम्यहम्। शरणैषिणः परित्यागं कथं साध्विति मन्यसे ॥०३-१३१-१४॥
आहारार्थं समारम्भस्तव चायं विहङ्गम। शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥०३-१३१-१५॥
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा। त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे ॥०३-१३१-१६॥
श्येन उवाच॥
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा। भक्षयामि महाराज किमन्नाद्येन तेन मे ॥०३-१३१-१७॥
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव। तमुत्सृज महीपाल कपोतमिममेव मे ॥०३-१३१-१८॥
श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी। मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह ॥०३-१३१-१९॥
राजोवाच॥
राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित। यद्वा कामयसे किञ्चिच्छ्येन सर्वं ददानि ते ॥ विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ॥०३-१३१-२०॥
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम। तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥०३-१३१-२१॥
श्येन उवाच॥
उशीनर कपोते ते यदि स्नेहो नराधिप। आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥०३-१३१-२२॥
यदा समं कपोतेन तव मांसं भवेन्नृप। तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥०३-१३१-२३॥
राजोवाच॥
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे। तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥०३-१३१-२४॥
लोमश उवाच॥
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्। तुलयामास कौन्तेय कपोतेन सहाभिभो ॥०३-१३१-२५॥
ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते। पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ॥०३-१३१-२६॥
न विद्यते यदा मांसं कपोतेन समं धृतम्। तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥०३-१३१-२७॥
श्येन उवाच॥
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्। जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ ॥०३-१३१-२८॥
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते। एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति ॥०३-१३१-२९॥
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव। तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥०३-१३१-३०॥
लोमश उवाच॥
तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः। पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥०३-१३१-३१॥
अत्र वै सततं देवा मुनयश्च सनातनाः। दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ॥०३-१३१-३२॥