Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.132
अष्टावक्रीयम्
लोमश उवाच॥
यः कथ्यते मन्त्रविदग्र्यबुद्धि; रौद्दालकिः श्वेतकेतुः पृथिव्याम्। तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः ॥०३-१३२-१॥
साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम्। वेत्स्यामि वाणीमिति सम्प्रवृत्तां; सरस्वतीं श्वेतकेतुर्बभाषे ॥०३-१३२-२॥
तस्मिन्काले ब्रह्मविदां वरिष्ठा; वास्तां तदा मातुलभागिनेयौ। अष्टावक्रश्चैव कहोडसूनु; रौद्दालकिः श्वेतकेतुश्च राजन् ॥०३-१३२-३॥
विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेयौ। प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुरप्रमेयम् ॥०३-१३२-४॥
युधिष्ठिर उवाच॥
कथम्प्रभावः स बभूव विप्र; स्तथायुक्तं यो निजग्राह बन्दिम्। अष्टावक्रः केन चासौ बभूव; तत्सर्वं मे लोमश शंस तत्त्वम् ॥०३-१३२-५॥
लोमश उवाच॥
उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन्। शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार ॥०३-१३२-६॥
तं वै विप्राः पर्यभवंश्च शिष्या; स्तं च ज्ञात्वा विप्रकारं गुरुः सः। तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् ॥०३-१३२-७॥
तस्या गर्भः समभवदग्निकल्पः; सोऽधीयानं पितरमथाभ्युवाच। सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते ॥०३-१३२-८॥
उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप। यस्मात्कुक्षौ वर्तमानो ब्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः ॥०३-१३२-९॥
स वै तथा वक्र एवाभ्यजाय; दष्टावक्रः प्रथितो वै महर्षिः। तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव ॥०३-१३२-१०॥
सम्पीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ। उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी ॥०३-१३२-११॥
कथं करिष्याम्यधना महर्षे; मासश्चायं दशमो वर्तते मे। न चास्ति ते वसु किञ्चित्प्रजाता; येनाहमेतामापदं निस्तरेयम् ॥०३-१३२-१२॥
उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत्। स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः ॥०३-१३२-१३॥
उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम्। उवाच तां तत्र ततः सुजाता; मष्टावक्रे गूहितव्योऽयमर्थः ॥०३-१३२-१४॥
ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः। उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ॥०३-१३२-१५॥
ततो वर्षे द्वादशे श्वेतकेतु; रष्टावक्रं पितुरङ्के निसन्नम्। अपाकर्षद्गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुरित्युक्तवांश्च ॥०३-१३२-१६॥
यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत्। गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति ॥०३-१३२-१७॥
ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे। तद्वै तत्त्वं सर्वमाज्ञाय मातु; रित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥०३-१३२-१८॥
गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः। श्रोष्यावोऽत्र ब्राह्मणानां विवाद; मन्नं चाग्र्यं तत्र भोक्ष्यावहे च ॥ विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥०३-१३२-१९॥
तौ जग्मतुर्मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः। अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद ॥०३-१३२-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.