Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.130
लोमश उवाच॥
इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत। मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ॥०३-१३०-१॥
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा। इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ॥०३-१३०-२॥
एषा सरस्वती पुण्या दिव्या चोघवती नदी। एतद्विनशनं नाम सरस्वत्या विशां पते ॥०३-१३०-३॥
द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती। प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ॥०३-१30-४॥
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती। यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥०३-१३०-५॥
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम। लोपामुद्रा समागम्य भर्तारमवृणीत वै ॥०३-१३०-६॥
एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते। इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ॥०३-१३०-७॥
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्। एषा रम्या विपाशा च नदी परमपावनी ॥०३-१३०-८॥
अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः। बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ॥०३-१३०-९॥
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम। महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ॥०३-१३०-१०॥
अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च। अग्नेश्चात्रैव संवादः काश्यपस्य च भारत ॥०३-१३०-११॥
एतद्द्वारं महाराज मानसस्य प्रकाशते। वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ॥०३-१३०-१२॥
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः। नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः ॥०३-१३०-१३॥
एष उज्जानको नाम यवक्रीर्यत्र शान्तवान्। अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ॥०३-१३०-१४॥
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्। आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ॥०३-१३०-१५॥
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया। तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् ॥०३-१३०-१६॥
जलां चोपजलां चैव यमुनामभितो नदीम्। उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥०३-१३०-१७॥
तां देवसमितिं तस्य वासवश्च विशां पते। अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत ॥०३-१३०-१८॥
जिज्ञासमानौ वरदौ महात्मानमुशीनरम्। इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ॥०३-१३०-१९॥
ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात्। शरणार्थी तदा राजन्निलिल्ये भयपीडितः ॥०३-१३०-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.