03.133
अष्टावक्र उवाच॥
अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः। राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः ॥०३-१३३-१॥
राजोवाच॥
पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व। न पावको विद्यते वै लघीया; निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् ॥०३-१३३-२॥
अष्टावक्र उवाच॥
यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम्। आवां प्राप्तावतिथी सम्प्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् ॥०३-१३३-३॥
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू। न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन ॥०३-१३३-४॥
द्वारपाल उवाच॥
बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम्। न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः ॥०३-१३३-५॥
अष्टावक्र उवाच॥
यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम्। वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः ॥०३-१३३-६॥
शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम्। न बाल इत्यवमन्तव्यमाहु; र्बालोऽप्यग्निर्दहति स्पृश्यमानः ॥०३-१३३-७॥
द्वारपाल उवाच॥
सरस्वतीमीरय वेदजुष्टा; मेकाक्षरां बहुरूपां विराजम्। अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः ॥०३-१३३-८॥
अष्टावक्र उवाच॥
न ज्ञायते कायवृद्ध्या विवृद्धि; र्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा। ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः ॥०३-१३३-९॥
द्वारपाल उवाच॥
वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः। न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे ॥०३-१३३-१०॥
अष्टावक्र उवाच॥
न तेन स्थविरो भवति येनास्य पलितं शिरः। बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः ॥०३-१३३-११॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥०३-१३३-१२॥
दिदृक्षुरस्मि सम्प्राप्तो बन्दिनं राजसंसदि। निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ॥०३-१३३-१३॥
द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे। उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य ॥०३-१३३-१४॥
द्वारपाल उवाच॥
कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां सम्प्रवेश्यम्। उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् ॥०३-१३३-१५॥
अष्टावक्र उवाच॥
भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम्। त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात् ॥०३-१३३-१६॥
विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः। त्वया निसृष्टैः पुरुषैराप्तकृद्भि; र्जले सर्वान्मज्जयतीति नः श्रुतम् ॥०३-१३३-१७॥
स तच्छ्रुत्वा ब्राह्मणानां सकाशा; द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि। क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि ॥०३-१३३-१८॥
राजोवाच॥
आशंससे बन्दिनं त्वं विजेतु; मविज्ञात्वा वाक्यबलं परस्य। विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ॥०३-१३३-१९॥
अष्टावक्र उवाच॥
विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः। समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम् ॥०३-१३३-२०॥
राजोवाच॥
षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः। यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥०३-१३३-२१॥
अष्टावक्र उवाच॥
चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि। तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ॥०३-१३३-२२॥
राजोवाच॥
वडवे इव संयुक्ते श्येनपाते दिवौकसाम्। कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥०३-१३३-२३॥
अष्टावक्र उवाच॥
मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम्। वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ॥०३-१३३-२४॥
राजोवाच॥
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति। कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ॥०३-१३३-२५॥
अष्टावक्र उवाच॥
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥०३-१३३-२६॥
राजोवाच॥
न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे। न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी ॥०३-१३३-२७॥