Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.134
अष्टावक्र उवाच॥
अत्रोग्रसेनसमितेषु राज; न्समागतेष्वप्रतिमेषु राजसु। न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव ॥०३-१३४-१॥
न मेऽद्य वक्ष्यस्यतिवादिमानि; न्ग्लहं प्रपन्नः सरितामिवागमः। हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् ॥०३-१३४-२॥
बन्द्युवाच॥
व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम्। पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध ॥०३-१३४-३॥
यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति। तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः ॥०३-१३४-४॥
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः। निकृष्टभूता राजानो वत्सा अनदुहो यथा ॥०३-१३४-५॥
लोमश उवाच॥
अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन्। उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥०३-१३४-६॥
बन्द्युवाच॥
एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते। एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव ॥०३-१३४-७॥
अष्टावक्र उवाच॥
द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च। द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा ॥०३-१३४-८॥
बन्द्युवाच॥
त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति। अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥०३-१३४-९॥
अष्टावक्र उवाच॥
चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति। दिशश्चतस्रश्चतुरश्च वर्णा; श्चतुष्पदा गौरपि शश्वदुक्ता ॥०३-१३४-१०॥
बन्द्युवाच॥
पञ्चाग्नयः पञ्चपदा च पङ्क्ति; र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि। दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् ॥०३-१३४-११॥
अष्टावक्र उवाच॥
षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम्। षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः ॥०३-१३४-१२॥
बन्द्युवाच॥
सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति। सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा ॥०३-१३४-१३॥
अष्टावक्र उवाच॥
अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती। अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः ॥०३-१३४-१४॥
बन्द्युवाच॥
नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विषर्गम्। नवाक्षरा बृहती सम्प्रदिष्टा; नवयोगो गणनामेति शश्वत् ॥०३-१३४-१५॥
अष्टावक्र उवाच॥
दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि। दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः ॥०३-१३४-१६॥
बन्द्युवाच॥
एकादशैकादशिनः पशूना; मेकादशैवात्र भवन्ति यूपाः। एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः ॥०३-१३४-१७॥
अष्टावक्र उवाच॥
संवत्सरं द्वादश मासमाहु; र्जगत्याः पादो द्वादशैवाक्षराणि। द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः ॥०३-१३४-१८॥
बन्द्युवाच॥
त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च। लोमश उवाच॥
एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः। त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥०३-१३४-२०॥
ततो महानुदतिष्ठन्निनाद; स्तूष्णीम्भूतं सूतपुत्रं निशम्य। अधोमुखं ध्यानपरं तदानी; मष्टावक्रं चाप्युदीर्यन्तमेव ॥०३-१३४-२१॥
तस्मिंस्तथा सङ्कुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः। अष्टावक्रं पूजयन्तोऽभ्युपेयु; र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥०३-१३४-२२॥
अष्टावक्र उवाच॥
अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल। तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् ॥०३-१३४-२३॥
बन्द्युवाच॥
अहं पुत्रो वरुणस्योत राज्ञ; स्तत्रास सत्रं द्वादशवार्षिकं वै। सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥०३-१३४-२४॥
एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः। अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये ॥०३-१३४-२५॥
अष्टावक्र उवाच॥
विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः। तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः ॥०३-१३४-२६॥
अग्निर्दहञ्जातवेदाः सतां गृहा; न्विसर्जयंस्तेजसा न स्म धाक्षीत्। बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः ॥०३-१३४-२७॥
श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति। हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि ॥०३-१३४-२८॥
जनक उवाच॥
शृणोमि वाचं तव दिव्यरूपा; ममानुषीं दिव्यरूपोऽसि साक्षात्। अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी ॥०३-१३४-२९॥
अष्टावक्र उवाच॥
नानेन जीवता कश्चिदर्थो मे बन्दिना नृप। पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥०३-१३४-३०॥
बन्द्युवाच॥
अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य। इमं मुहूर्तं पितरं द्रक्ष्यतेऽय; मष्टावक्रश्चिरनष्टं कहोडम् ॥०३-१३४-३१॥
लोमश उवाच॥
ततस्ते पूजिता विप्रा वरुणेन महात्मना। उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ॥०३-१३४-३२॥
कहोड उवाच॥
इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा। यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥०३-१३४-३३॥
उताबलस्य बलवानुत बालस्य पण्डितः। उत वाविदुषो विद्वान्पुत्रो जनक जायते ॥०३-१३४-३४॥
बन्द्युवाच॥
शितेन ते परशुना स्वयमेवान्तको नृप। शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते ॥०३-१३४-३५॥
महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे। शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे ॥०३-१३४-३६॥
लोमश उवाच॥
समुत्थितेष्वथ सर्वेषु राज; न्विप्रेषु तेष्वधिकं सुप्रभेषु। अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी ॥०३-१३४-३७॥
अष्टावक्रः पितरं पूजयित्वा; सम्पूजितो ब्राह्मणैस्तैर्यथावत्। प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन ॥०३-१३४-३८॥
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः। पुण्यान्यन्यानि शुचिकर्मैकभक्ति; र्मया सार्धं चरितास्याजमीढ ॥०३-१३४-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.