Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.135
यवक्रीतोपाख्यानम्
लोमश उवाच॥
एषा मधुविला राजन्समङ्गा सम्प्रकाशते। एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥०३-१३५-१॥
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः। आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥०३-१३५-२॥
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ। अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ॥०३-१३५-३॥
एनं पर्वतराजानमारुह्य पुरुषर्षभ। अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥०३-१३५-४॥
एते कनखला राजनृषीणां दयिता नगाः। एषा प्रकाशते गङ्गा युधिष्ठिर महानदी ॥०३-१३५-५॥
सनत्कुमारो भगवानत्र सिद्धिमगात्पराम्। आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥०३-१३५-६॥
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्। तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ॥०३-१३५-७॥
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते। अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥०३-१३५-८॥
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते। भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ॥०३-१३५-९॥
युधिष्ठिर उवाच॥
कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्। किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ॥०३-१३५-१०॥
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश। कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥०३-१३५-११॥
लोमश उवाच॥
भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः। तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥०३-१३५-१२॥
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू। आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥०३-१३५-१३॥
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत्। तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत ॥०३-१३५-१४॥
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्। दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ॥०३-१३५-१५॥
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः। तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥०३-१३५-१६॥
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन्। जनयामास सन्तापमिन्द्रस्य सुमहातपाः ॥०३-१३५-१७॥
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर। अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥०३-१३५-१८॥
यवक्रीरुवाच॥
द्विजानामनधीता वै वेदाः सुरगणार्चित। प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ॥०३-१३५-१९॥
स्वाध्यायार्थे समारम्भो ममायं पाकशासन। तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥०३-१३५-२०॥
कालेन महता वेदाः शक्या गुरुमुखाद्विभो। प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥०३-१३५-२१॥
इन्द्र उवाच॥
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि। किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥०३-१३५-२२॥
लोमश उवाच॥
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत। भूय एवाकरोद्यत्नं तपस्यमितविक्रम ॥०३-१३५-२३॥
घोरेण तपसा राजंस्तप्यमानो महातपाः। सन्तापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥०३-१३५-२४॥
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्। उपेत्य बलभिद्देवो वारयामास वै पुनः ॥०३-१३५-२५॥
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव। प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥०३-१३५-२६॥
यवक्रीरुवाच॥
न चैतदेवं क्रियते देवराज ममेप्सितम्। महता नियमेनाहं तप्स्ये घोरतरं तपः ॥०३-१३५-२७॥
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध। यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् ॥०३-१३५-२८॥
लोमश उवाच॥
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः। प्रतिवारणहेत्वर्थं बुद्ध्या सञ्चिन्त्य बुद्धिमान् ॥०३-१३५-२९॥
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः। अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥०३-१३५-३०॥
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि। भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥०३-१३५-३१॥
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः। वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥०३-१३५-३२॥
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्। सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् ॥०३-१३५-३३॥
तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने। प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥०३-१३५-३४॥
किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम्। अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥०३-१३५-३५॥
इन्द्र उवाच॥
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति। क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ॥०३-१३५-३६॥
यवक्रीरुवाच॥
नायं शक्यस्त्वया बद्धुं महानोघः कथञ्चन। अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥०३-१३५-३७॥
इन्द्र उवाच॥
यथैव भवता चेदं तपो वेदार्थमुद्यतम्। अशक्यं तद्वदस्माभिरयं भारः समुद्यतः ॥०३-१३५-३८॥
यवक्रीरुवाच॥
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर। तथा यदि ममापीदं मन्यसे पाकशासन ॥०३-१३५-३९॥
क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर। वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति ॥०३-१३५-४०॥
लोमश उवाच॥
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः। प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥०३-१३५-४१॥
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति। स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् ॥०३-१३५-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.