Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.136
यवक्रीरुवाच॥
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः। अति चान्यान्भविष्यावो वरा लब्धास्तथा मया ॥०३-१३६-१॥
भरद्वाज उवाच॥
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्। स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि ॥०३-१३६-२॥
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः। ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान् ॥०३-१३६-३॥
स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम्। भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः ॥०३-१३६-४॥
तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः। नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ॥०३-१३६-५॥
बालधिरुवाच॥
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः। अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति ॥०३-१३६-६॥
भरद्वाज उवाच॥
तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा। स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत ॥०३-१३६-७॥
विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम्। आससाद महावीर्यं धनुषाक्षं मनीषिणम् ॥०३-१३६-८॥
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्। भव भस्मेति चोक्तः स न भस्म समपद्यत ॥०३-१३६-९॥
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्। निमित्तमस्य महिषैर्भेदयामास वीर्यवान् ॥०३-१३६-१०॥
स निमित्ते विनष्टे तु ममार सहसा शिशुः। तं मृतं पुत्रमादाय विललाप ततः पिता ॥०३-१३६-११॥
लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत्। ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे ॥०३-१३६-१२॥
न दिष्टमर्थमत्येतुमीशो मर्त्यः कथञ्चन। महिषैर्भेदयामास धनुषाक्षो महीधरान् ॥०३-१३६-१३॥
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः। क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ॥०३-१३६-१४॥
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ। तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ॥०३-१३६-१५॥
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा। वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः ॥०३-१३६-१६॥
यवक्रीरुवाच॥
एवं करिष्ये मा तापं तात कार्षीः कथञ्चन। यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ॥०३-१३६-१७॥
लोमश उवाच॥
उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः। विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ॥०३-१३६-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.