Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
लोमश उवाच॥
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्। समित्कलापमादाय प्रविवेश स्वमाश्रमम् ॥०३-१३८-१॥
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः। न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः ॥०३-१३८-२॥
वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः। तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥०३-१३८-३॥
किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्। त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ॥०३-१३८-४॥
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः। एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः ॥०३-१३८-५॥
शूद्र उवाच॥
रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः। तथा हि निहतः शेते राक्षसेन बलीयसा ॥०३-१३८-६॥
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा। अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः ॥०३-१३८-७॥
ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम्। सम्भावितो हि तूर्णेन शूलहस्तेन रक्षसा ॥०३-१३८-८॥
लोमश उवाच॥
भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः। गतासुं पुत्रमादाय विललाप सुदुःखितः ॥०३-१३८-९॥
ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः। द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति ॥०३-१३८-१०॥
तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु। अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ॥०३-१३८-११॥
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्। गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥०३-१३८-१२॥
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम्। गतवानेव कोपस्य वशं परमदुर्मतिः ॥०३-१३८-१३॥
पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा। त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि ॥०३-१३८-१४॥
यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी। तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥०३-१३८-१५॥
सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते। ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥०३-१३८-१६॥
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः। शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥०३-१३८-१७॥
परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया। ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति ॥०३-१३८-१८॥
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम्। सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥०३-१३८-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.