Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.139
लोमश उवाच॥
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः। सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् ॥०३-१३९-१॥
तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू। वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता ॥०३-१३९-२॥
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः। आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥०३-१३९-३॥
अथावलोककोऽगच्छद्गृहानेकः परावसुः। कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥०३-१३९-४॥
जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि। चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥०३-१३९-५॥
मृगं तु मन्यमानेन पिता वै तेन हिंसितः। अकामयानेन तदा शरीरत्राणमिच्छता ॥०३-१३९-६॥
स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत। पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः ॥०३-१३९-७॥
इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन। मया तु हिंसितस्तातो मन्यमानेन तं मृगम् ॥०३-१३९-८॥
सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम्। समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥०३-१३९-९॥
अर्वावसुरुवाच॥
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः। ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥०३-१३९-१०॥
लोमश उवाच॥
स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर। अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥०३-१३९-११॥
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्। बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् ॥०३-१३९-१२॥
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति। ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः ॥०३-१३९-१३॥
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा। न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः ॥०३-१३९-१४॥
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत। नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् ॥ मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् ॥०३-१३९-१५॥
प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप। तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥०३-१३९-१६॥
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः। स चापि वरयामास पितुरुत्थानमात्मनः ॥०३-१३९-१७॥
अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे। भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ॥०३-१३९-१८॥
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर। अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ॥०३-१३९-१९॥
समधीतं मया ब्रह्म व्रतानि चरितानि च। कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् ॥ तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥०३-१३९-२०॥
देवा ऊचुः॥
मैवं कृथा यवक्रीत यथा वदसि वै मुने। ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा ॥०३-१३९-२१॥
अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा। कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥०३-१३९-२२॥
लोमश उवाच॥
यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः। सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥०३-१३९-२३॥
आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः। अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे ॥०३-१३९-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.