03.137
लोमश उवाच॥
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः। जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥०३-१३७-१॥
स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते। विचरन्तीं स्नुषां तस्य किंनरीमिव भारत ॥०३-१३७-२॥
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति। निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥०३-१३७-३॥
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती। तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा ॥०३-१३७-४॥
तत एकान्तमुन्नीय मज्जयामास भारत। आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ॥०३-१३७-५॥
रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः। सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥०३-१३७-६॥
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा। प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना ॥०३-१३७-७॥
शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम्। दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥०३-१३७-८॥
स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः। अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ॥०३-१३७-९॥
ततः समभवन्नारी तस्या रूपेण संमिता। अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः ॥०३-१३७-१०॥
ततः समभवद्रक्षो घोराक्षं भीमदर्शनम्। अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥०३-१३७-११॥
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति। जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥०३-१३७-१२॥
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना। कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥०३-१३७-१३॥
उच्चिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्। तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥०३-१३७-१४॥
तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया। यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः ॥०३-१३७-१५॥
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः। जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥०३-१३७-१६॥
स काल्यमानो घोरेण शूलहस्तेन रक्षसा। अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् ॥०३-१३७-१७॥
स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा। निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ॥०३-१३७-१८॥
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः। ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥०३-१३७-१९॥
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्। अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् ॥०३-१३७-२०॥