03.143
वैशम्पायन उवाच॥
ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः। बद्धगोधाङ्गुलित्राणाः खद्गवन्तोऽमितौजसः ॥०३-१४३-१॥
परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम्। पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥०३-१४३-२॥
सरांसि सरितश्चैव पर्वतांश्च वनानि च। वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ॥ नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ॥०३-१४३-३॥
आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः। चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान् ॥ पश्यन्तो मृगजातानि बहूनि विविधानि च ॥०३-१४३-४॥
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्। विविशुस्ते महात्मानः किंनराचरितं गिरिम् ॥०३-१४३-५॥
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्। चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ॥०३-१४३-६॥
ततो रेणुः समुद्भूतः सपत्रबहुलो महान्। पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ॥०३-१४३-७॥
न स्म प्रज्ञायते किञ्चिदावृते व्योम्नि रेणुना। न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ॥०३-१४३-८॥
न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः। आकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥०३-१४३-९॥
द्रुमाणां वातभग्नानां पततां भूतले भृशम्। अन्येषां च महीजानां शब्दः समभवन्महान् ॥०३-१४३-१०॥
द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम्। इति ते मेनिरे सर्वे पवनेन विमोहिताः ॥०३-१४३-११॥
ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च। पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥०३-१४३-१२॥
ततः कार्मुकमुद्यम्य भीमसेनो महाबलः। कृष्णामादाय सङ्गत्या तस्थावाश्रित्य पादपम् ॥०३-१४३-१३॥
धर्मराजश्च धौम्यश्च निलिल्याते महावने। अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥०३-१४३-१४॥
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः। वृक्षानासाद्य सन्त्रस्तास्तत्र तत्र निलिल्यिरे ॥०३-१४३-१५॥
मन्दीभूते च पवने तस्मिन्रजसि शाम्यति। महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ॥०३-१४३-१६॥
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः। प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ॥०३-१४३-१७॥
ततः सागरगा आपः कीर्यमाणाः समन्ततः। प्रादुरासन्सकलुसाः फेनवत्यो विशां पते ॥०३-१४३-१८॥
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्। परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥०३-१४३-१९॥
तस्मिन्नुपरते वर्षे वाते च समतां गते। गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥०३-१४३-२०॥
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत। प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ॥०३-१४३-२१॥