Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.142
युधिष्ठिर उवाच॥
भीमसेन यमौ चोभौ पाञ्चालि च निबोधत। नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥०३-१४२-१॥
दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम्। अशक्येऽपि व्रजामेति धनञ्जयदिदृक्षया ॥०३-१४२-२॥
तन्मे दहति गात्राणि तूलराशिमिवानलः। यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके ॥०३-१४२-३॥
तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम्। याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥०३-१४२-४॥
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्। अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥०३-१४२-५॥
तीर्थानि चैव रम्याणि वनानि च सरांसि च। चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥०३-१४२-६॥
पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम्। यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥०३-१४२-७॥
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्। न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥०३-१४२-८॥
कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम्। न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ॥०३-१४२-९॥
चरन्तमरिसङ्घेषु कालं क्रुद्धमिवान्तकम्। प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम् ॥०३-१४२-१०॥
यः स शक्रादनवरो वीर्येण द्रविणेन च। यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥०३-१४२-११॥
दुःखेन महताविष्टः स्वकृतेनानिवर्तिना। अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् ॥०३-१४२-१२॥
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा। ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च ॥०३-१४२-१३॥
स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः। अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥०३-१४२-१४॥
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान्। दाताभयस्य बीभत्सुरमितात्मा महाबलः ॥०३-१४२-१५॥
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता। आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥०३-१४२-१६॥
रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम। बहूनि बहुजातानि यानि प्राप्तः सुयोधनः ॥०३-१४२-१७॥
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम। सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥०३-१४२-१८॥
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि। अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् ॥०३-१४२-१९॥
सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम्। अनुजातः स वीर्येण वासुदेवं च शत्रुहा ॥०३-१४२-२०॥
यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः। जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥०३-१४२-२१॥
ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः। प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥०३-१४२-२२॥
विशाला बदरी यत्र नरनारायणाश्रमः। तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ॥०३-१४२-२३॥
कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम्। पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः ॥०३-१४२-२४॥
नातप्ततपसा शक्यो देशो गन्तुं वृकोदर। न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥०३-१४२-२५॥
तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः। सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ॥०३-१४२-२६॥
मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान्। प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥०३-१४२-२७॥
ते वयं नियतात्मानः पर्वतं गन्धमादनम्। प्रवेक्ष्यामो मिताहारा धनञ्जयदिदृक्षवः ॥०३-१४२-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.