Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.144
वैशम्पायन उवाच॥
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु। पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥०३-१४४-१॥
श्रान्ता दुःखपरीता च वातवर्षेण तेन च। सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी ॥०३-१४४-२॥
सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा। वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥०३-१४४-३॥
आलम्बमाना सहितावूरू गजकरोपमौ। पपात सहसा भूमौ वेपन्ती कदली यथा ॥०३-१४४-४॥
तां पतन्तीं वरारोहां सज्जमानां लतामिव। नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥०३-१४४-५॥
नकुल उवाच॥
राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा। श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ॥०३-१४४-६॥
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी। आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥०३-१४४-७॥
वैशम्पायन उवाच॥
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः। भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥०३-१४४-८॥
तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम्। अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ॥०३-१४४-९॥
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता। शेते निपतिता भूमौ सुखार्हा वरवर्णिनी ॥०३-१४४-१०॥
सुकुमारौ कथं पादौ मुखं च कमलप्रभम्। मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥०३-१४४-११॥
किमिदं द्यूतकामेन मया कृतमबुद्धिना। आदाय कृष्णां चरता वने मृगगणायुते ॥०३-१४४-१२॥
सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन्। इति द्रुपदराजेन पित्रा दत्तायतेक्षणा ॥०३-१४४-१३॥
तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता। शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥०३-१४४-१४॥
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे। धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ॥०३-१४४-१५॥
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्। रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥०३-१४४-१६॥
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः। स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥०३-१४४-१७॥
सेव्यमाना च शीतेन जलमिश्रेण वायुना। पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥०३-१४४-१८॥
परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे। तदा विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनीम् ॥०३-१४४-१९॥
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ। कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥०३-१४४-२०॥
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः। उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥०३-१४४-२१॥
बहवः पर्वता भीम विषमा हिमदुर्गमाः। तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥०३-१४४-२२॥
भीमसेन उवाच॥
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ। स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ॥०३-१४४-२३॥
अथ वासौ मया जातो विहगो मद्बलोपमः। वहेदनघ सर्वान्नो वचनात्ते घतोत्कचः ॥०३-१४४-२४॥
वैशम्पायन उवाच॥
अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम्। घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ॥ कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् ॥०३-१४४-२५॥
ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः। उवाच भीमसेनं स पितरं सत्यविक्रमः ॥०३-१४४-२६॥
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः। आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् ॥ तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे ॥०३-१४४-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.