Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.154
जटासुरबधपर्व
वैशम्पायन उवाच॥
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान्। गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ॥०३-१५४-१॥
रहितान्भीमसेनेन कदाचित्तान्यदृच्छया। जहार धर्मराजानं यमौ कृष्णां च राक्षसः ॥०३-१५४-२॥
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः। इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ॥०३-१५४-३॥
परीक्षमाणः पार्थानां कलापानि धनूंषि च। अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः ॥०३-१५४-४॥
स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे। अन्यद्रूपं समास्थाय विकृतं भैरवं महत् ॥०३-१५४-५॥
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च। प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥०३-१५४-६॥
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः। आक्रन्दद्भीमसेनं वै येन यातो महाबलः ॥०३-१५४-७॥
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः। धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥०३-१५४-८॥
येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि। गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा ॥ मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि ॥०३-१५४-९॥
समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते। इमं च लोकं शोचन्तमनुशोचन्ति देवताः ॥ पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥०३-१५४-१०॥
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस। राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥०३-१५४-११॥
न च राजावमन्तव्यो रक्षसा जात्वनागसि। अणुरप्यपचारश्च नास्त्यस्माकं नराशन ॥०३-१५४-१२॥
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्। येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥०३-१५४-१३॥
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः। भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥०३-१५४-१४॥
एवमेव वृथाचारो वृथावृद्धो वृथामतिः। वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥०३-१५४-१५॥
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः। प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥०३-१५४-१६॥
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि। अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ॥०३-१५४-१७॥
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्। विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥०३-१५४-१८॥
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत। स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥०३-१५४-१९॥
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः। मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ॥०३-१५४-२०॥
नातिदूरे महाबाहुर्भविता पवनात्मजः। अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः ॥०३-१५४-२१॥
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम्। उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥०३-१५४-२२॥
राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्। यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा ॥०३-१५४-२३॥
एष चास्मान्वयं चैनं युध्यमानाः परन्तप। सूदयेम महाबाहो देशकालो ह्ययं नृप ॥०३-१५४-२४॥
क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रम। जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥०३-१५४-२५॥
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि। नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ॥०३-१५४-२६॥
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः। हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि ॥०३-१५४-२७॥
तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया। प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥०३-१५४-२८॥
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम्। क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥०३-१५४-२९॥
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्। भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ॥०३-१५४-३०॥
भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः। क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ॥०३-१५४-३१॥
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे। आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ॥ ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ॥०३-१५४-३२॥
प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम्। अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ॥ राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ॥०३-१५४-३३॥
अपक्वस्य च कालेन वधस्तव न विद्यते। नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी ॥ दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ॥०३-१५४-३४॥
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः। मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ॥०३-१५४-३५॥
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते। न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥०३-१५४-३६॥
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः। भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥०३-१५४-३७॥
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः। न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥०३-१५४-३८॥
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे। तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ॥०३-१५४-३९॥
एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन्। स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ॥ बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥०३-१५४-४०॥
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम्। अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥०३-१५४-४१॥
वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे। माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ॥०३-१५४-४२॥
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः। शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥०३-१५४-४३॥
आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च। इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥०३-१५४-४४॥
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्। बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥०३-१५४-४५॥
तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः। अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥०३-१५४-४६॥
आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः। जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ॥०३-१५४-४७॥
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ। अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ॥०३-१५४-४८॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्। वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥०३-१५४-४९॥
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम्। ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥०३-१५४-५०॥
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः। पुञ्जीकृताश्च शतशः परस्परवधेप्सया ॥०३-१५४-५१॥
तदा शिलाः समादाय मुहूर्तमिव भारत। महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥०३-१५४-५२॥
उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम्। वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥०३-१५४-५३॥
अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ। भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥०३-१५४-५४॥
मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः। तयोश्चटचटाशब्दो बभूव सुमहात्मनोः ॥०३-१५४-५५॥
ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम्। वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥०३-१५४-५६॥
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम्। सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥०३-१५४-५७॥
तत एनं महाबाहुर्बाहुभ्याममरोपमः। समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥०३-१५४-५८॥
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः। अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥०३-१५४-५९॥
संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम्। जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् ॥ पपात रुधिरादिग्धं संदष्टदशनच्छदम् ॥०३-१५४-६०॥
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत्। स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः ॥०३-१५४-६१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.