03.153
वैशम्पायन उवाच॥
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ। बहूनि बहुरूपाणि विरजांसि समाददे ॥०३-१५३-१॥
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः। प्रादुरासीत्खरस्पर्शः सङ्ग्राममभिचोदयन् ॥०३-१५३-२॥
पपात महती चोल्का सनिर्घाता महाप्रभा। निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ॥०३-१५३-३॥
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते। चचाल पृथिवी चापि पांसुवर्षं पपात च ॥०३-१५३-४॥
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः। तमोवृतमभूत्सर्वं न प्रज्ञायत किञ्चन ॥०३-१५३-५॥
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः। उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥०३-१५३-६॥
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः। यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः ॥०३-१५३-७॥
एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः। अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः ॥०३-१५३-८॥
तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः। पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥०३-१५३-९॥
कच्चिन्न भीमः पाञ्चालि किञ्चित्कृत्यं चिकीर्षति। कृतवानपि वा वीरः साहसं साहसप्रियः ॥०३-१५३-१०॥
इमे ह्यकस्मादुत्पाता महासमरदर्शिनः। दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥०३-१५३-११॥
तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी। प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥०३-१५३-१२॥
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना। तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् ॥०३-१५३-१३॥
अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि। तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति ॥०३-१५३-१४॥
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः। प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥०३-१५३-१५॥
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्। गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥०३-१५३-१६॥
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान्। त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच ॥०३-१५३-१७॥
व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः। चिरं च तस्य कालोऽयं स च वायुसमो जवे ॥०३-१५३-१८॥
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने। उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् ॥०३-१५३-१९॥
तमन्वियाम भवतां प्रभावाद्रजनीचराः। पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥०३-१५३-२०॥
तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा। उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥०३-१५३-२१॥
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः। लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥०३-१५३-२२॥
ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने। प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् ॥०३-१५३-२३॥
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्। ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् ॥०३-१५३-२४॥
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम्। प्रजासङ्क्षेपसमये दण्डहस्तमिवान्तकम् ॥०३-१५३-२५॥
तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः। उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् ॥०३-१५३-२६॥
साहसं बत भद्रं ते देवानामपि चाप्रियम्। पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥०३-१५३-२७॥
अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च। तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः ॥०३-१५३-२८॥
एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः। प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥०३-१५३-२९॥
ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम्। नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् ॥ विनयेनानताः सर्वे प्रणिपेतुश्च भारत ॥०३-१५३-३०॥
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः। विदिताश्च कुबेरस्य ततस्ते नरपुङ्गवाः ॥ ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ॥०३-१५३-३१॥