Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.155
यक्षयुद्धपर्व
वैशम्पायन उवाच॥
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्। अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥०३-१५५-१॥
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः। द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् ॥०३-१५५-२॥
समाश्चतस्रोऽभिगताः शिवेन चरतां वने। कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् ॥०३-१५५-३॥
प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्। तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥०३-१५५-४॥
कृतश्च समयस्तेन पार्थेनामिततेजसा। पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ॥०३-१५५-५॥
तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम्। देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥०३-१५५-६॥
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः। कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् ॥०३-१५५-७॥
तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम्। ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥०३-१५५-८॥
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ। क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥०३-१५५-९॥
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्। प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परन्तपः ॥०३-१५५-१०॥
द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा। राक्षसैरनुयातश्च लोमशेनाभिरक्षितः ॥०३-१५५-११॥
क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित्। तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः ॥०३-१५५-१२॥
ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन्। सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥०३-१५५-१३॥
अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्। गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥०३-१५५-१४॥
उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः। प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥०३-१५५-१५॥
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात्। पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते ॥०३-१५५-१६॥
सलिलावर्तसञ्जातैः पुष्पितैश्च महीरुहैः। समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥०३-१५५-१७॥
तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः। पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः ॥०३-१५५-१८॥
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान्। पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः ॥०३-१५५-१९॥
अष्टमेऽहनि सम्प्राप्ते तमृषिं लोकविश्रुतम्। आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् ॥०३-१५५-२०॥
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे। न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् ॥०३-१५५-२१॥
ततस्ते वरवस्त्राणि शुभान्याभरणानि च। न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः ॥०३-१५५-२२॥
अतीतानागते विद्वान्कुशलः सर्वधर्मवित्। अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥०३-१५५-२३॥
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्। कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः ॥ तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः ॥०३-१५५-२४॥
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा। अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च ॥ वृषपर्वा निववृते पन्थानमुपदिश्य च ॥०३-१५५-२५॥
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः। पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥०३-१५५-२६॥
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु। पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः ॥०३-१५५-२७॥
महाभ्रघनसङ्काशं सलिलोपहितं शुभम्। मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥०३-१५५-२८॥
ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा। अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ॥०३-१५५-२९॥
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः। सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥०३-१५५-३०॥
धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः। अगमन्सहितास्तत्र न कश्चिदवहीयते ॥०३-१५५-३१॥
ते मृगद्विजसङ्घुष्टं नानाद्विजसमाकुलम्। शाखामृगगणैश्चैव सेवितं सुमनोहरम् ॥०३-१५५-३२॥
पुण्यं पद्मसरोपेतं सपल्वलमहावनम्। उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् ॥०३-१५५-३३॥
ततः किम्पुरुषावासं सिद्धचारणसेवितम्। ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् ॥०३-१५५-३४॥
विद्याधरानुचरितं किंनरीभिस्तथैव च। गजसिंहसमाकीर्णमुदीर्णशरभायुतम् ॥०३-१५५-३५॥
उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः। ते गन्धमादनवनं तन्नन्दनवनोपमम् ॥०३-१५५-३६॥
मुदिताः पाण्डुतनया मनोहृदयनन्दनम्। विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ॥०३-१५५-३७॥
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः। शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् ॥ श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥०३-१५५-३८॥
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान्। पश्यन्तः पादपांश्चापि फलभारावनामितान् ॥०३-१५५-३९॥
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान्। अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् ॥०३-१५५-४०॥
पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान्। पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् ॥०३-१५५-४१॥
बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा। प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा ॥ भल्लातकानामलकान्हरीतकबिभीतकान् ॥०३-१५५-४२॥
इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान्। एतानन्यांश्च विविधान्गन्धमादनसानुषु ॥०३-१५५-४३॥
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून्। तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ॥०३-१५५-४४॥
पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान्। पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥०३-१५५-४५॥
पारिजातान्कोविदारान्देवदारुतरूंस्तथा। शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा ॥ शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा ॥०३-१५५-४६॥
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः। कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥०३-१५५-४७॥
प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः। श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥०३-१५५-४८॥
सरांसि च विचित्राणि प्रसन्नसलिलानि च। कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः ॥ कह्लारैः कमलैश्चैव आचितानि समन्ततः ॥०३-१५५-४९॥
कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः। कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ॥ एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥०३-१५५-५०॥
हृष्टैस्तथा तामरसरसासवमदालसैः। पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥०३-१५५-५१॥
मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान्। पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु ॥०३-१५५-५२॥
तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः। शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च ॥ मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥०३-१५५-५३॥
कृत्वैव केकामधुरं सङ्गीतमधुरस्वरम्। चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ॥ मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् ॥०३-१५५-५४॥
कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम्। वल्लीलतासङ्कटेषु कटकेषु स्थितांस्तथा ॥०३-१५५-५५॥
कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि। कलापरचिताटोपान्विचित्रमुकुटानिव ॥ विवरेषु तरूणां च मुदितान्ददृशुश्च ते ॥०३-१५५-५६॥
सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान्। सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च ॥०३-१५५-५७॥
कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान्। अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् ॥ कामवश्योत्सुककरान्कामस्येव शरोत्करान् ॥०३-१५५-५८॥
तथैव वनराजीनामुदारान्रचितानिव। विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ॥०३-१५५-५९॥
तथानङ्गशराकारान्सहकारान्मनोरमान्। अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् ॥०३-१५५-६०॥
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि। लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि ॥०३-१५५-६१॥
तथा शालांस्तमालांश्च पाटल्यो बकुलानि च। माला इव समासक्ताः शैलानां शिखरेषु च ॥०३-१५५-६२॥
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः। गजसङ्घसमाबाधं सिंहव्याघ्रसमायुतम् ॥०३-१५५-६३॥
शरभोन्नादसङ्घुष्टं नानारावनिनादितम्। सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥०३-१५५-६४॥
पीता भास्वरवर्णाभा बभूवुर्वनराजयः। नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः ॥ स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥०३-१५५-६५॥
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः। राजहंसैरुपेतानि सारसाभिरुतानि च ॥ सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥०३-१५५-६६॥
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च। गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥०३-१५५-६७॥
एते चान्ये च बहवस्तत्र काननजा द्रुमाः। लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥०३-१५५-६८॥
युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे। भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् ॥०३-१५५-६९॥
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः। अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥०३-१५५-७०॥
लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः। संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥०३-१५५-७१॥
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्। नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु ॥०३-१५५-७२॥
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः। पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् ॥०३-१५५-७३॥
रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः। परस्परमुदीक्षन्ते बहवो जीवजीवकाः ॥०३-१५५-७४॥
हरितारुणवर्णानां शाद्वलानां समन्ततः। सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥०३-१५५-७५॥
वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः। भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः ॥०३-१५५-७६॥
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः। एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥०३-१५५-७७॥
बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः। नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः ॥०३-१५५-७८॥
भास्कराभप्रभा भीम शारदाभ्रघनोपमाः। शोभयन्ति महाशैलं नानारजतधातवः ॥०३-१५५-७९॥
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः। धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥०३-१५५-८०॥
मनःशिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः। शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ॥०३-१५५-८१॥
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः। एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥०३-१५५-८२॥
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा। दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह ॥०३-१५५-८३॥
गीतानां तलतालानां यथा साम्नां च निस्वनः। श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥०३-१५५-८४॥
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम्। कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् ॥०३-१५५-८५॥
धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः। गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ॥०३-१५५-८६॥
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः। उपेतं पश्य कौन्तेय शैलराजमरिंदम ॥०३-१५५-८७॥
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम्। नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः ॥०३-१५५-८८॥
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः। आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ॥०३-१५५-८९॥
ततस्तं तीव्रतपसं कृशं धमनिसन्ततम्। पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् ॥०३-१५५-९०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.