Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.164
अर्जुन उवाच॥
ततस्तामवसं प्रीतो रजनीं तत्र भारत। प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ॥०३-१६४-१॥
व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम्। अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥०३-१६४-२॥
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्। भगवन्तं महादेवं समेतोऽस्मीति भारत ॥०३-१६४-३॥
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः। दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥०३-१६४-४॥
समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः। द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥०३-१६४-५॥
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः। अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥०३-१६४-६॥
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः। पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥०३-१६४-७॥
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च। शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ॥०३-१६४-८॥
वादित्राणि च दिव्यानि सुघोषाणि समन्ततः। स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥०३-१६४-९॥
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च। पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥०३-१६४-१०॥
मरुतां च गणास्तत्र देवयानैरुपागमन्। महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥०३-१६४-११॥
ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः। शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ॥०३-१६४-१२॥
एतस्मिन्नेव काले तु कुबेरो नरवाहनः। दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ॥०३-१६४-१३॥
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्। वरुणं देवराजं च यथास्थानमवस्थितम् ॥०३-१६४-१४॥
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः। सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ॥०३-१६४-१५॥
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम्। अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥०३-१६४-१६॥
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्। प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ॥०३-१६४-१७॥
गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत। अथ देवा ययुः सर्वे यथागतमरिंदम ॥०३-१६४-१८॥
मघवानपि देवेशो रथमारुह्य सुप्रभम्। उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ॥०३-१६४-१९॥
पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय। अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥०३-१६४-२०॥
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्। तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ॥०३-१६४-२१॥
भूयश्चैव तु तप्तव्यं तपः परमदारुणम्। उवाच भगवान्सर्वं तपसश्चोपपादनम् ॥०३-१६४-२२॥
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति। विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ॥०३-१६४-२३॥
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम। आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर ॥०३-१६४-२४॥
इन्द्र उवाच॥
क्रूरं कर्मास्त्रवित्तात करिष्यसि परन्तप। यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥०३-१६४-२५॥
अर्जुन उवाच॥
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्। मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ॥०३-१६४-२६॥
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप। लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ॥०३-१६४-२७॥
इन्द्र उवाच॥
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय। ममात्मजस्य वचनं सूपपन्नमिदं तव ॥०३-१६४-२८॥
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत। वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ॥०३-१६४-२९॥
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्। वैष्णवानि च सर्वाणि नैरृतानि तथैव च ॥ मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥०३-१६४-३०॥
अर्जुन उवाच॥
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत। अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ॥ दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥०३-१६४-३१॥
लोकपालेषु यातेषु मामुवाचाथ मातलिः। द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥०३-१६४-३२॥
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम्। पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥०३-१६४-३३॥
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम्। प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ॥०३-१६४-३४॥
चोदयामास स हयान्मनोमारुतरंहसः। मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः ॥०३-१६४-३५॥
अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः। तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥०३-१६४-३६॥
अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम्। यदास्थितो रथं दिव्यं पदा न चलितो भवान् ॥०३-१६४-३७॥
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः। विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥०३-१६४-३८॥
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह। अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे ॥०३-१६४-३९॥
इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान्। दर्शयामास मे राजन्विमानानि च भारत ॥०३-१६४-४०॥
नन्दनादीनि देवानां वनानि बहुलान्युत। दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः ॥०३-१६४-४१॥
ततः शक्रस्य भवनमपश्यममरावतीम्। दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम् ॥०३-१६४-४२॥
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः। रजः पङ्को न च तमस्तत्रास्ति न जरा नृप ॥०३-१६४-४३॥
न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते। दिवौकसां महाराज न च ग्लानिररिंदम ॥०३-१६४-४४॥
न क्रोधलोभौ तत्रास्तामशुभं च विशां पते। नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि ॥०३-१६४-४५॥
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः। पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ॥०३-१६४-४६॥
शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः। सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥०३-१६४-४७॥
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः। विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः ॥०३-१६४-४८॥
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान्। आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥०३-१६४-४९॥
ते मां वीर्येण यशसा तेजसा च बलेन च। अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामविजयेन च ॥०३-१६४-५०॥
प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम्। देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ॥०३-१६४-५१॥
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः। बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥०३-१६४-५२॥
तत्राहं देवगन्धर्वैः सहितो भुरिदक्षिण। अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत ॥०३-१६४-५३॥
विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा। स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥०३-१६४-५४॥
ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः। सुखं शक्रस्य भवने सर्वकामसमन्वितः ॥०३-१६४-५५॥
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्। पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परन्तप ॥०३-१६४-५६॥
तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत। अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥०३-१६४-५७॥
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः। एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥०३-१६४-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.