Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.165
अर्जुन उवाच॥
कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः। संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ॥०३-१६५-१॥
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि। किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥ अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ॥०३-१६५-२॥
अथाब्रवीत्पुनर्देवः सम्प्रहृष्टतनूरुहः। अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥०३-१६५-३॥
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः। ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥०३-१६५-४॥
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च। पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः ॥०३-१६५-५॥
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय। प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः ॥०३-१६५-६॥
तव गुर्वर्थकालोऽयमुपपन्नः परन्तप। प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् ॥०३-१६५-७॥
ततोऽहमब्रुवं राजन्देवराजमिदं वचः। विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् ॥०३-१६५-८॥
ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा। नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन ॥०३-१६५-९॥
निवातकवचा नाम दानवा मम शत्रवः। समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥०३-१६५-१०॥
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः। तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥०३-१६५-११॥
ततो मातलिसंयुक्तं मयूरसमरोमभिः। हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥०३-१६५-१२॥
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्। स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥०३-१६५-१३॥
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्। अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥०३-१६५-१४॥
ततः प्रायामहं तेन स्यन्दनेन विराजता। येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥०३-१६५-१५॥
ततो देवाः सर्व एव तेन घोषेण बोधितः। मन्वाना देवराजं मां समाजग्मुर्विशां पते ॥ दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ॥०३-१६५-१६॥
तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे। निवातकवचानां तु प्रस्थितं मां वधैषिणम् ॥ निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ॥०३-१६५-१७॥
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम्। रथेनानेन मघवा जितवाञ्शम्बरं युधि ॥ नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥०३-१६५-१८॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। रथेनानेन दैत्यानां जितवान्मघवान्युधि ॥०३-१६५-१९॥
त्वमप्येतेन कौन्तेय निवातकवचान्रणे। विजेता युधि विक्रम्य पुरेव मघवान्वशी ॥०३-१६५-२०॥
अयं च शङ्खप्रवरो येन जेतासि दानवान्। अनेन विजिता लोकाः शक्रेणापि महात्मना ॥०३-१६५-२१॥
प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम्। प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ॥०३-१६५-२२॥
स शङ्खी कवची बाणी प्रगृहीतशरासनः। दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ॥०३-१६५-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.