Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.163
वैशम्पायन उवाच॥
यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः। कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् ॥०३-१६३-१॥
अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम्। हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥०३-१६३-२॥
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव। कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥०३-१६३-३॥
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत। कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥०३-१६३-४॥
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक्। यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ॥०३-१६३-५॥
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम। कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् ॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥०३-१६३-६॥
यथा तुष्टो महादेवो देवराजश्च तेऽनघ। यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम ॥ एतदाख्याहि मे सर्वमखिलेन धनञ्जय ॥०३-१६३-७॥
अर्जुन उवाच॥
शृणु हन्त महाराज विधिना येन दृष्टवान्। शतक्रतुमहं देवं भगवन्तं च शङ्करम् ॥०३-१६३-८॥
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन। भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥०३-१६३-९॥
भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः। एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि ॥०३-१६३-१०॥
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे। तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन ॥०३-१६३-११॥
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम। अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥०३-१६३-१२॥
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत। तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ॥०३-१६३-१३॥
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्। तपोऽतप्यं महाराज मासं मूलफलाशनः ॥०३-१६३-१४॥
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः। निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥०३-१६३-१५॥
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा। न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥०३-१६३-१६॥
चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते। वराहसंस्थितं भूतं मत्समीपमुपागमत् ॥०३-१६३-१७॥
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि। संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥०३-१६३-१८॥
अनु तस्यापरं भूतं महत्कैरातसंस्थितम्। धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥०३-१६३-१९॥
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी। अताडयं शरेणाथ तद्भूतं लोमहर्षणम् ॥०३-१६३-२०॥
युगपत्तत्किरातश्च विकृष्य बलवद्धनुः। अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः ॥०३-१६३-२१॥
स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः। मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥०३-१६३-२२॥
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव। स वर्ष्मवान्महाकायस्ततो मामभ्यधावत ॥०३-१६३-२३॥
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः। तं चाहं शरवर्षेण महता समवाकिरम् ॥०३-१६३-२४॥
ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः। प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥०३-१६३-२५॥
तस्य तच्छतधा रूपमभवच्च सहस्रधा। तानि चास्य शरीराणि शरैरहमताडयम् ॥०३-१६३-२६॥
पुनस्तानि शरीराणि एकीभूतानि भारत। अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥०३-१६३-२७॥
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः। एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥०३-१६३-२८॥
यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे। ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ ॥०३-१६३-२९॥
न चैनमशकं हन्तुं तदद्भुतमिवाभवत्। तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥०३-१६३-३०॥
भूयश्चैव महाराज सविशेषमहं ततः। अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥०३-१६३-३१॥
स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम्। शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् ॥ जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ ॥०३-१६३-३२॥
तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम्। ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत ॥ उपचीयमानश्च मया महास्त्रेण व्यवर्धत ॥०३-१६३-३३॥
ततः सन्तापितो लोको मत्प्रसूतेन तेजसा। क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् ॥०३-१६३-३४॥
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत्। ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् ॥०३-१६३-३५॥
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी। सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥०३-१६३-३६॥
हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च। मम तस्य च भूतस्य बाहुयुद्धमवर्तत ॥०३-१६३-३७॥
व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ। अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् ॥०३-१६३-३८॥
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत। सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥०३-१६३-३९॥
एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः। दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् ॥०३-१६३-४०॥
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः। स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः ॥०३-१६३-४१॥
अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः। उमासहायो हरिदृग्बहुरूपः पिनाकधृक् ॥०३-१६३-४२॥
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्। शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप ॥०३-१६३-४३॥
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ। प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥०३-१६३-४४॥
तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते। यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् ॥ अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥०३-१६३-४५॥
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः। प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥०३-१६३-४६॥
भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम। अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ॥ ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् ॥०३-१६३-४७॥
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव। प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ॥०३-१६३-४८॥
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम्। न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन ॥०३-१६३-४९॥
पीड्यमानेन बलवत्प्रयोज्यं ते धनञ्जय। अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥०३-१६३-५०॥
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्। मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥०३-१६३-५१॥
उत्सादनममित्राणां परसेनानिकर्तनम्। दुरासदं दुष्प्रहसं सुरदानवराक्षसैः ॥०३-१६३-५२॥
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्। प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत ॥०३-१६३-५३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.