03.166
अर्जुन उवाच॥
ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः। अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् ॥०३-१६६-१॥
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः। ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः ॥ नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ॥०३-१६६-२॥
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः। मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः ॥०३-१६६-३॥
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः। दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ॥०३-१६६-४॥
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत। वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ॥०३-१६६-५॥
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम्। अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥०३-१६६-६॥
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले। नादयन्रथघोषेण तत्पुरं समुपाद्रवत् ॥०३-१६६-७॥
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे। मन्वाना देवराजं मां संविग्ना दानवाभवन् ॥०३-१६६-८॥
सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः। तथा शूलासिपरशुगदामुसलपाणयः ॥०३-१६६-९॥
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः। संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥०३-१६६-१०॥
ततः शङ्खमुपादाय देवदत्तं महास्वनम्। पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् ॥०३-१६६-११॥
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्। वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥०३-१६६-१२॥
ततो निवातकवचाः सर्व एव समन्ततः। दंशिता विविधैस्त्राणैर्विविधायुधपाणयः ॥०३-१६६-१३॥
आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि। पट्टिशैः करवालैश्च रथचक्रैश्च भारत ॥०३-१६६-१४॥
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलङ्कृतैः। प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥०३-१६६-१५॥
ततो विचार्य बहुधा रथमार्गेषु तान्हयान्। प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥०३-१६६-१६॥
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम्। नान्वपश्यं तदा किञ्चित्तन्मेऽद्भुतमिवाभवत् ॥०३-१६६-१७॥
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः। विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥०३-१६६-१८॥
तेन शब्देन महता समुद्रे पर्वतोपमाः। आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः ॥०३-१६६-१९॥
ततो वेगेन महता दानवा मामुपाद्रवन्। विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः ॥०३-१६६-२०॥
स सम्प्रहारस्तुमुलस्तेषां मम च भारत। अवर्तत महाघोरो निवातकवचान्तकः ॥०३-१६६-२१॥
ततो देवर्षयश्चैव दानवर्षिगणाश्च ये। ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे ॥०३-१६६-२२॥
ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः। अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये ॥०३-१६६-२३॥