Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.167
अर्जुन उवाच॥
ततो निवातकवचाः सर्वे वेगेन भारत। अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥०३-१६७-१॥
आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः। आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥०३-१६७-२॥
ततोऽपरे महावीर्याः शूलपट्टिशपाणयः। शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥०३-१६७-३॥
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम्। अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥०३-१६७-४॥
अन्ये मामभ्यधावन्त निवातकवचा युधि। शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥०३-१६७-५॥
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः। गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ॥ ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ॥०३-१६७-६॥
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः। रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः ॥ सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् ॥०३-१६७-७॥
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे। तदा मातलिना यत्ता व्यचरन्नल्पका इव ॥०३-१६७-८॥
तेषां चरणपातेन रथनेमिस्वनेन च। मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥०३-१६७-९॥
गतासवस्तथा चान्ये प्रगृहीतशरासनाः। हतसारथयस्तत्र व्यकृष्यन्त तुरङ्गमैः ॥०३-१६७-१०॥
ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः। निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥०३-१६७-११॥
ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम्। अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥०३-१६७-१२॥
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे। सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः ॥०३-१६७-१३॥
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्। प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥०३-१६७-१४॥
वध्यमानास्ततस्ते तु हयैस्तेन रथेन च। अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे ॥०३-१६७-१५॥
स्पर्धमाना इवास्माभिर्निवातकवचा रणे। शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् ॥०३-१६७-१६॥
ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः। व्यधमं सायकैराशु शतशोऽथ सहस्रशः ॥०३-१६७-१७॥
ततः सम्पीड्यमानास्ते क्रोधाविष्टा महासुराः। अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः ॥०३-१६७-१८॥
ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम्। दयितं देवराजस्य माधवं नाम भारत ॥०३-१६७-१९॥
ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः। अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् ॥०३-१६७-२०॥
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः। प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥०३-१६७-२१॥
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः। निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् ॥०३-१६७-२२॥
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव। अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥०३-१६७-२३॥
वध्यमानास्ततस्ते तु निवातकवचाः पुनः। शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥०३-१६७-२४॥
शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः। ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥०३-१६७-२५॥
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्। प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् ॥०३-१६७-२६॥
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः। मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः ॥०३-१६७-२७॥
शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः। ततो निवातकवचा मामयुध्यन्त मायया ॥०३-१६७-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.