Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.168
अर्जुन उवाच॥
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः। नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् ॥०३-१६८-१॥
तदहं वज्रसङ्काशैः शरैरिन्द्रास्त्रचोदितैः। अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥०३-१६८-२॥
चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत। तत्राश्मचूर्णमपतत्पावकप्रकरा इव ॥०३-१६८-३॥
ततोऽश्मवर्षे निहते जलवर्षं महत्तरम्। धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ॥०३-१६८-४॥
नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः। आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥०३-१६८-५॥
धाराणां च निपातेन वायोर्विस्फूर्जितेन च। गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन ॥०३-१६८-६॥
धारा दिवि च सम्बद्धा वसुधायां च सर्वशः। व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि ॥०३-१६८-७॥
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्। दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् ॥०३-१६८-८॥
हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते। मुमुचुर्दानवा मायामग्निं वायुं च मानद ॥०३-१६८-९॥
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः। शैलेन च महास्त्रेण वायोर्वेगमधारयम् ॥०३-१६८-१०॥
तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः। प्राकुर्वन्विविधा माया यौगपद्येन भारत ॥०३-१६८-११॥
ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम्। अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् ॥०३-१६८-१२॥
सा तु मायामयी वृष्टिः पीडयामास मां युधि। अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥०३-१६८-१३॥
तमसा संवृते लोके घोरेण परुषेण च। तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥०३-१६८-१४॥
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि। असकृच्चाह मां भीतः क्वासीति भरतर्षभ ॥०३-१६८-१५॥
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि। स च मां विगतज्ञानः सन्त्रस्त इदमब्रवीत् ॥०३-१६८-१६॥
सुराणामसुराणां च सङ्ग्रामः सुमहानभूत्। अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ ॥०३-१६८-१७॥
शम्बरस्य वधे चापि सङ्ग्रामः सुमहानभूत्। सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥०३-१६८-१८॥
तथैव वृत्रस्य वधे सङ्गृहीता हया मया। वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥०३-१६८-१९॥
एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः। न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव ॥०३-१६८-२०॥
पितामहेन संहारः प्रजानां विहितो ध्रुवम्। न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ॥०३-१६८-२१॥
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना। मोहयिष्यन्दानवानामहं मायामयं बलम् ॥०३-१६८-२२॥
अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्। अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च ॥०३-१६८-२३॥
अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम्। विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ॥०३-१६८-२४॥
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप। मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् ॥०३-१६८-२५॥
पीड्यमानासु मायासु तासु तास्वसुरेश्वराः। पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ॥०३-१६८-२६॥
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः। व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति ॥०३-१६८-२७॥
सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः। व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे ॥०३-१६८-२८॥
ततः पर्यपतन्नुग्रा निवातकवचा मयि। तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ॥०३-१६८-२९॥
वर्तमाने तथा युद्धे निवातकवचान्तके। नापश्यं सहसा सर्वान्दानवान्माययावृतान् ॥०३-१६८-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.