Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.169
अर्जुन उवाच॥
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया। अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ॥०३-१६९-१॥
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः। अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ॥०३-१६९-२॥
ततो निवातकवचा वध्यमाना मया युधि। संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ॥०३-१६९-३॥
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने। अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥०३-१६९-४॥
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च। कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥०३-१६९-५॥
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम्। उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥०३-१६९-६॥
ततो निवातकवचा व्योम सञ्छाद्य केवलम्। अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥०३-१६९-७॥
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ। न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥०३-१६९-८॥
विनिगृह्य हरीनश्वान्रथं च मम युध्यतः। सर्वतो मामचिन्वन्त सरथं धरणीधरैः ॥०३-१६९-९॥
पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः। स देशो यत्र वर्ताम गुहेव समपद्यत ॥०३-१६९-१०॥
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः। अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥०३-१६९-११॥
लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत्। अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥०३-१६९-१२॥
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम्। देवराजस्य दयितं वज्रमस्त्रं नराधिप ॥०३-१६९-१३॥
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च। अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ॥०३-१६९-१४॥
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान्। ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ॥०३-१६९-१५॥
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः। इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥०३-१६९-१६॥
अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः। अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ॥०३-१६९-१७॥
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः। समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥०३-१६९-१८॥
न हयानां क्षतिः काचिन्न रथस्य न मातलेः। मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥०३-१६९-१९॥
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत। नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥०३-१६९-२०॥
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः। प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥०३-१६९-२१॥
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम्। त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥०३-१६९-२२॥
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान्। रथं च रविसङ्काशं प्राद्रवन्गणशः स्त्रियः ॥०३-१६९-२३॥
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः। शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥०३-१६९-२४॥
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्। बहुरत्नविचित्राणि शातकुम्भमयानि च ॥०३-१६९-२५॥
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्। विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥०३-१६९-२६॥
इदमेवंविधं कस्माद्देवता नाविशन्त्युत। पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥०३-१६९-२७॥
मातलिरुवाच॥
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्। ततो निवातकवचैरितः प्रच्याविताः सुराः ॥०३-१६९-२८॥
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम्। इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥०३-१६९-२९॥
ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः। विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥०३-१६९-३०॥
तत उक्तो भगवता दिष्टमत्रेति वासवः। भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ॥०३-१६९-३१॥
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव। न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥०३-१६९-३२॥
कालस्य परिणामेन ततस्त्वमिह भारत। एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥०३-१६९-३३॥
दानवानां विनाशार्थं महास्त्राणां महद्बलम्। ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥०३-१६९-३४॥
अर्जुन उवाच॥
ततः प्रविश्य नगरं दानवांश्च निहत्य तान्। पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ॥०३-१६९-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.