03.170
अर्जुन उवाच॥
निवर्तमानेन मया महद्दृष्टं ततोऽपरम्। पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ॥०३-१७०-१॥
द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः। पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ॥०३-१७०-२॥
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्। सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥ द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ॥०३-१७०-३॥
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः। असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ॥ चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥०३-१७०-४॥
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम्। अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥०३-१७०-५॥
मातलिरुवाच॥
पुलोमा नाम दैतेयी कालका च महासुरी। दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ॥ तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ॥०३-१७०-६॥
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम्। अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ॥०३-१७०-७॥
रमणीयं पुरं चेदं खचरं सुकृतप्रभम्। सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ॥०३-१७०-८॥
सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ॥०३-१७०-८॥
सर्वकामगुणोपेतं वीतशोकमनामयम्। ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ॥०३-१७०-९॥
तदेतत्खचरं दिव्यं चरत्यमरवर्जितम्। पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥०३-१७०-१०॥
हिरण्यपुरमित्येतत्ख्यायते नगरं महत्। रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ॥०३-१७०-११॥
त एते मुदिता नित्यमवध्याः सर्वदैवतैः। निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ॥ मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥०३-१७०-१२॥
अर्जुन उवाच॥
सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो। अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥०३-१७०-१३॥
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम्। न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः ॥०३-१७०-१४॥
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात्। रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥०३-१७०-१५॥
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः। समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥०३-१७०-१६॥
ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः। अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥०३-१७०-१७॥
तदहं चास्त्रवर्षेण महता प्रत्यवारयम्। शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥०३-१७०-१८॥
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे। तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥०३-१७०-१९॥
तेषामहं विमूढानामन्योन्यमभिधावताम्। शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसङ्घशः ॥०३-१७०-२०॥
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः। खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥०३-१७०-२१॥
ततोऽहं शरवर्षेण महता प्रत्यवारयम्। मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥०३-१७०-२२॥
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम्। दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥०३-१७०-२३॥
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते। पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ॥०३-१७०-२४॥
अमरावतिसङ्काशं पुरं कामगमं तु तत्। अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ॥०३-१७०-२५॥
ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च। न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ॥०३-१७०-२६॥
विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः। महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥०३-१७०-२७॥
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः। पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥०३-१७०-२८॥
ततो मातलिरप्याशु पुरस्तान्निपतन्निव। महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥०३-१७०-२९॥
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम्। युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥०३-१७०-३०॥
तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः। ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ॥०३-१७०-३१॥
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै। ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् ॥०३-१७०-३२॥
ततस्तानि सहस्राणि रथानां चित्रयोधिनाम्। अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव ॥०३-१७०-३३॥
रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः। प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः ॥०३-१७०-३४॥
विचित्रमुकुटापीडा विचित्रकवचध्वजाः। विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ॥०३-१७०-३५॥
अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे। नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् ॥०३-१७०-३६॥
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि। व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम ॥०३-१७०-३७॥
ततोऽहं देवदेवाय रुद्राय प्रणतो रणे। स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ॥ यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥०३-१७०-३८॥
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्। त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ॥ लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ॥०३-१७०-३९॥
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्। दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥०३-१७०-४०॥
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे। मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥०३-१७०-४१॥
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः। मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ॥ ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥०३-१७०-४२॥
गजानां सृमराणां च शरभाणां च सर्वशः। ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥ शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ॥०३-१७०-४३॥
गृध्राणां गरुडानां च मकराणां तथैव च। पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥०३-१७०-४४॥
गुह्यकानां च सङ्ग्रामे नैरृतानां तथैव च। झषाणां गजवक्त्राणामुलूकानां तथैव च ॥०३-१७०-४५॥
मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम्। तथैव यातु धानानां गदामुद्गरधारिणाम् ॥०३-१७०-४६॥
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा। सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥०३-१७०-४७॥
त्रिषिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः। अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः ॥ अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ॥०३-१७०-४८॥
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः। अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः ॥ न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥०३-१७०-४९॥
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान्। दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥०३-१७०-५०॥
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान्। निशाम्य परमं हर्षमगमद्देवसारथिः ॥०३-१७०-५१॥
तदसह्यं कृतं कर्म देवैरपि दुरासदम्। दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥०३-१७०-५२॥
उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः। सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ॥ न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ॥०३-१७०-५३॥
सुरासुरैरवध्यं हि पुरमेतत्खगं महत्। त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् ॥०३-१७०-५४॥
विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च। विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥०३-१७०-५५॥
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः। पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ॥०३-१७०-५६॥
रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः। उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ॥०३-१७०-५७॥
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्। न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥०३-१७०-५८॥
गन्धर्वनगराकारं हतनागमिव ह्रदम्। शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥०३-१७०-५९॥
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्। देवराजस्य भवनं कृतकर्माणमाहवात् ॥०३-१७०-६०॥
हिरण्यपुरमारुज्य निहत्य च महासुरान्। निवातकवचांश्चैव ततोऽहं शक्रमागमम् ॥०३-१७०-६१॥
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्। सर्वं विश्रावयामास यथा भूतं महाद्युते ॥०३-१७०-६२॥
हिरण्यपुरघातं च मायानां च निवारणम्। निवातकवचानां च वधं सङ्ख्ये महौजसाम् ॥०३-१७०-६३॥
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः। मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् ॥०३-१७०-६४॥
ततो मां देवराजो वै समाश्वास्य पुनः पुनः। अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः ॥०३-१७०-६५॥
अतिदेवासुरं कर्म कृतमेतत्त्वया रणे। गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम ॥०३-१७०-६६॥
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय। असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥०३-१७०-६७॥
अविषह्यो रणे हि त्वं देवदानवराक्षसैः। सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥०३-१७०-६८॥
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्। पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥०३-१७०-६९॥