Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.179
मार्कण्डेयसमास्यापर्व
वैशम्पायन उवाच॥
निदाघान्तकरः कालः सर्वभूतसुखावहः। तत्रैव वसतां तेषां प्रावृट्समभिपद्यत ॥०३-१७९-१॥
छादयन्तो महाघोषाः खं दिशश्च बलाहकाः। प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥०३-१७९-२॥
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः। अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः ॥०३-१७९-३॥
विरूढशष्पा पृथिवी मत्तदंशसरीसृपा। बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा ॥०३-१७९-४॥
न स्म प्रज्ञायते किञ्चिदम्भसा समवस्तृते। समं वा विषमं वापि नद्यो वा स्थावराणि वा ॥०३-१७९-५॥
क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः। सिन्धवः शोभयां चक्रुः काननानि तपात्यये ॥०३-१७९-६॥
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः। वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥०३-१७९-७॥
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह। मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः ॥०३-१७९-८॥
तथा बहुविधाकारा प्रावृण्मेघानुनादिता। अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥०३-१७९-९॥
क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत्। रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥०३-१७९-१०॥
विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत्। मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥०३-१७९-११॥
पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः। ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ॥०३-१७९-१२॥
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः। नदीः पुष्करिणीश्चैव ददृशुः समलङ्कृताः ॥०३-१७९-१३॥
आकाशनीकाशतटां नीपनीवारसङ्कुलाम्। बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ॥०३-१७९-१४॥
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्। पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥०३-१७९-१५॥
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी। तत्रैव वसतामासीत्कार्त्तिकी जनमेजय ॥०३-१७९-१६॥
पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः। तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् ॥०३-१७९-१७॥
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः। सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् ॥०३-१७९-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.