03.183
मार्कण्डेय उवाच॥
भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे। वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ॥ तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ॥०३-१८३-१॥
भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात्। सञ्चिन्त्य स महातेजा वनमेवान्वरोचयत् ॥ धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥०३-१८३-२॥
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्। अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥०३-१८३-३॥
तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती। वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ॥ स ते दास्यति राजर्षिर्यजमानोऽर्थине धनम् ॥०३-१८३-४॥
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु। भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ॥ एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥०३-१८३-५॥
अत्रिरुवाच॥
कथितो मे महाभागे गौतमेन महात्मना। वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥०३-१८३-६॥
किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः। यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥०३-१८३-७॥
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम्। मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ॥०३-१८३-८॥
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव। गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम् ॥०३-१८३-९॥
मार्कण्डेय उवाच॥
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः। गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥०३-१८३-१०॥
राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः। स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥०३-१८३-११॥
तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः। मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ॥ अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ॥०३-१८३-१२॥
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत। अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ॥ त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥०३-१८३-१३॥
गौतम उवाच॥
जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे। स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् ॥०३-१८३-१४॥
न वेत्थ परमं धर्मं न चावैषि प्रयोजनम्। बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥०३-१८३-१५॥
मार्कण्डेय उवाच॥
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ। ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥०३-१८३-१६॥
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि। उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ॥०३-१८३-१७॥
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित्। विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥०३-१८३-१८॥
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान्। आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुङ्गवाः ॥ वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ॥०३-१८३-१९॥
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम्। सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ॥०३-१८३-२०॥
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः। प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥०३-१८३-२१॥
सनत्कुमार उवाच॥
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह। राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ॥ स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ॥०३-१८३-२२॥
प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः। य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥०३-१८३-२३॥
पुरायोनिर्युधाजिच्च अभिया मुदितो भवः। स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ॥०३-१८३-२४॥
सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः। अधर्मादृषयो भीता बलं क्षत्रे समादधन् ॥०३-१८३-२५॥
आदित्यो दिवि देवेषु तमो नुदति तेजसा। तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ॥०३-१८३-२६॥
अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्। उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ॥०३-१८३-२७॥
मार्कण्डेय उवाच॥
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः। तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥०३-१८३-२८॥
यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः। सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ॥ तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ॥०३-१८३-२९॥
दासीसहस्रं श्यामानां सुवस्त्राणामलङ्कृतम्। दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ॥ एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ॥०३-१८३-३०॥
तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः। प्रत्याजगाम तेजस्वी गृहानेव महातपाः ॥०३-१८३-३१॥
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्। तपः समभिसन्धाय वनमेवान्वपद्यत ॥०३-१८३-३२॥