Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.184
मार्कण्डेय उवाच॥
अत्रैव च सरस्वत्या गीतं परपुरञ्जय। पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥०३-१८४-१॥
तार्क्ष्य उवाच॥
किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात्। आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् ॥०३-१८४-२॥
कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत्। एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः सञ्चरेयम् ॥०३-१८४-३॥
मार्कण्डेय उवाच॥
एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम्। तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे ॥०३-१८४-४॥
सरस्वत्युवाच॥
यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः। स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम् ॥०३-१८४-५॥
तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः। अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः ॥०३-१८४-६॥
तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः। सुपुण्यगन्धाभिरलङ्कृताभि; र्हिरण्यवर्णाभिरतीव हृष्टः ॥०३-१८४-७॥
परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति। वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति ॥०३-१८४-८॥
धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च। यावन्ति रोमाणि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥०३-१८४-९॥
अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम्। धुरन्धरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य ॥०३-१८४-१०॥
यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः। सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः ॥०३-१८४-११॥
तार्क्ष्य उवाच॥
किमग्निहोत्रस्य व्रतं पुराण; माचक्ष्व मे पृच्छतश्चारुरूपे। त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम् ॥०३-१८४-१२॥
सरस्वत्युवाच॥
न चाशुचिर्नाप्यनिर्णिक्तपाणि; र्नाब्रह्मविज्जुहुयान्नाविपश्चित्। बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति ॥०३-१८४-१३॥
नाश्रोत्रियं देवहव्ये नियुञ्ज्या; न्मोघं परा सिञ्चति तादृशो हि। अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम् ॥०३-१८४-१४॥
कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च। गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् ॥०३-१८४-१५॥
तार्क्ष्य उवाच॥
क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम्। प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे ॥०३-१८४-१६॥
सरस्वत्युवाच॥
अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय। त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत् ॥०३-१८४-१७॥
तार्क्ष्य उवाच॥
न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः। रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि ॥०३-१८४-१८॥
सरस्वत्युवाच॥
श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति। तैरेवाहं सम्प्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र ॥०३-१८४-१९॥
यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा। दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन् ॥०३-१८४-२०॥
तार्क्ष्य उवाच॥
इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः सम्प्रतीताः। आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः ॥०३-१८४-२१॥
सरस्वत्युवाच॥
तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम्। स्वाध्यायदानव्रतपुण्ययोगै; स्तपोधना वीतशोका विमुक्ताः ॥०३-१८४-२२॥
तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति। तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः ॥०३-१८४-२३॥
शाखां शाखां महानद्यः संयान्ति सिकतासमाः। धानापूपा मांसशाकाः सदा पायसकर्दमाः ॥०३-१८४-२४॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः। ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ॥०३-१८४-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.