Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.185
मत्स्योपाख्यानम्
वैशम्पायन उवाच॥
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह। कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ॥०३-१८५-१॥
मार्कण्डेय उवाच॥
विवस्वतः सुतो राजन्परमर्षिः प्रतापवान्। बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥०३-१८५-२॥
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः। अतिचक्राम पितरं मनुः स्वं च पितामहम् ॥०३-१८५-३॥
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः। एकपादस्थितस्तीव्रं चचार सुमहत्तपः ॥०३-१८५-४॥
अवाक्षिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्। सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥०३-१८५-५॥
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्। वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥०३-१८५-६॥
भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम। मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥०३-१८५-७॥
दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः। भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी ॥०३-१८५-८॥
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः। त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥०३-१८५-९॥
स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः। मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥०३-१८५-१०॥
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः। अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ॥०३-१८५-११॥
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः। पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ॥०३-१८५-१२॥
अथ कालेन महता स मत्स्यः सुमहानभूत्। अलिञ्जरे जले चैव नासौ समभवत्किल ॥०३-१८५-१३॥
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत। भगवन्साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय ॥०३-१८५-१४॥
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः। तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥०३-१८५-१५॥
तत्र तं प्राक्षिपच्चापि मनुः परपुरञ्जय। अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥०३-१८५-१६॥
द्वियोजनायता वापी विस्तृता चापि योजनम्। तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ॥ विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते ॥०३-१८५-१७॥
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत। नय मां भगवन्साधो समुद्रमहिषीं प्रभो ॥ गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥०३-१८५-१८॥
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी। नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ॥०३-१८५-१९॥
स तत्र ववृधे मत्स्यः किञ्चित्कालमरिंदम। ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥०३-१८५-२०॥
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो। समुद्रं नय मामाशु प्रसीद भगवन्निति ॥०३-१८५-२१॥
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम्। समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ॥०३-१८५-२२॥
सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा। आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥०३-१८५-२३॥
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा। तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥०३-१८५-२४॥
भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः। प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥०३-१८५-२५॥
अचिराद्भगवन्भौममिदं स्थावरजङ्गमम्। सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥०३-१८५-२६॥
सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः। तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥०३-१८५-२७॥
त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति। तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः ॥०३-१८५-२८॥
नौश्च कारयितव्या ते दृढा युक्तवटाकरा। तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥०३-१८५-२९॥
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा। तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः ॥०३-१८५-३०॥
नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय। आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥०३-१८५-३१॥
एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम्। नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ॥०३-१८५-३२॥
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत। जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥०३-१८५-३३॥
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह। बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ॥ नावा तु शुभया वीर महोर्मिणमरिंदम ॥०३-१८५-३४॥
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते। स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय ॥ शृङ्गी तत्राजगामाशु तदा भरतसत्तम ॥०३-१८५-३५॥
तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे। शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥०३-१८५-३६॥
वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि। मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् ॥०३-१८५-३७॥
संयतस्तेन पाशेन मत्स्यः परपुरञ्जय। वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥०३-१८५-३८॥
स ततार तया नावा समुद्रं मनुजेश्वर। नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥०३-१८५-३९॥
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ। घूर्णते चपलेव स्त्री मत्ता परपुरञ्जय ॥०३-१८५-४०॥
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे। सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुङ्गव ॥०३-१८५-४१॥
एवम्भूते तदा लोके सङ्कुले भरतर्षभ। अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह ॥०३-१८५-४२॥
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः। चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये ॥०३-१८५-४३॥
ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ। तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥०३-१८५-४४॥
ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः। अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥०३-१८५-४५॥
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ। नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥०३-१८५-४६॥
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्। ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥०३-१८५-४७॥
अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा। अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ॥ मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ॥०३-१८५-४८॥
मनुना च प्रजाः सर्वाः सदेवासुरमानवाः। स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥०३-१८५-४९॥
तपसा चातितीव्रेण प्रतिभास्य भविष्यति। मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ॥०३-१८५-५०॥
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः। स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ॥ प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥०३-१८५-५१॥
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे। सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥०३-१८५-५२॥
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्। आख्यानमिदमाख्यातं सर्वपापहरं मया ॥०३-१८५-५३॥
य इदं शृणुयान्नित्यं मनोश्चरितमादितः। स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः ॥०३-१८५-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.