Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.186
वैशम्पायन उवाच॥
ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम्। पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥०३-१८६-१॥
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने। न चापीह समः कश्चिदायुषा तव विद्यते ॥ वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ॥०३-१८६-२॥
अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते। त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि ॥०३-१८६-३॥
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे। त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि ॥०३-१८६-४॥
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना। वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥०३-१८६-५॥
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः। आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥०३-१८६-६॥
तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी। न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥०३-१८६-७॥
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः। नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन ॥०३-१८६-८॥
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे। नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥०३-१८६-९॥
शयानममितात्मानं पद्मे पद्मनिकेतनम्। त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥०३-१८६-१०॥
एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम। तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् ॥०३-१८६-११॥
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम। न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा ॥०३-१८६-१२॥
मार्कण्डेय उवाच॥
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे। पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥०३-१८६-१३॥
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः। एष कर्ता विकर्ता च सर्वभावनभूतकृत् ॥०३-१८६-१४॥
अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम्। अनादिनिधनं भूतं विश्वमक्षयमव्ययम् ॥०३-१८६-१५॥
एष कर्ता न क्रियते कारणं चापि पौरुषे। यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः ॥०३-१८६-१६॥
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम। आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥०३-१८६-१७॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ॥०३-१८६-१८॥
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ॥०३-१८६-१९॥
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः। तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च ततः परम् ॥०३-१८६-२०॥
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम्। तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ॥ सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय ॥०३-१८६-२१॥
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम्। एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ॥०३-१८६-२२॥
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम्। विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते ॥ लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ॥०३-१८६-२३॥
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ। सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥०३-१८६-२४॥
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा। व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥०३-१८६-२५॥
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः। क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे ॥०३-१८६-२६॥
निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः। ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥०३-१८६-२७॥
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः। विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥०३-१८६-२८॥
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप। मिथ्यानुशासिनः पापा मृषावादपरायणाः ॥०३-१८६-२९॥
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः। काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम ॥०३-१८६-३०॥
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति। क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप ॥०३-१८६-३१॥
अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः। अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः ॥०३-१८६-३२॥
बहुशून्या जनपदा मृगव्यालावृता दिशः। युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः ॥ भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ॥०३-१८६-३३॥
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः। न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते ॥ रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥०३-१८६-३४॥
बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः। मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥०३-१८६-३५॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥०३-१८६-३६॥
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप। अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥०३-१८६-३७॥
ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम्। नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥०३-१८६-३८॥
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः। भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥०३-१८६-३९॥
करभारभयात्पुंसो गृहस्थाः परिमोषकाः। मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते ॥०३-१८६-४०॥
मिथ्या च नखरोमाणि धारयन्ति नरास्तदा। अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥०३-१८६-४१॥
आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः। ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥०३-१८६-४२॥
बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः। आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥०३-१८६-४३॥
यथर्तुवर्षी भगवान्न तथा पाकशासनः। न तदा सर्वबीजानि सम्यग्रोहन्ति भारत ॥ अधर्मफलमत्यर्थं तदा भवति चानघ ॥०३-१८६-४४॥
तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः। अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन ॥०३-१८६-४५॥
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः। वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥०३-१८६-४६॥
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः। धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ॥०३-१८६-४७॥
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा। दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥०३-१८६-४८॥
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत। सञ्चयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः ॥०३-१८६-४९॥
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः। हर्तुं व्यवसिता राजन्मायाचारसमन्विताः ॥०३-१८६-५०॥
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा। नगराणां विहारेषु चैत्येष्वपि च शेरते ॥०३-१८६-५१॥
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप। दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥०३-१८६-५२॥
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा। आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥०३-१८६-५३॥
क्षीणे युगे महाराज तरुणा वृद्धशीलिनः। तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥०३-१८६-५४॥
विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन्। व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥०३-१८६-५५॥
तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये। अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥०३-१८६-५६॥
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च। प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥०३-१८६-५७॥
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप। पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥०३-१८६-५८॥
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत। सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥०३-१८६-५९॥
ततः संवर्तको वह्निर्वायुना सह भारत। लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥०३-१८६-६०॥
ततः स पृथिवीं भित्त्वा समाविश्य रसातलम्। देवदानवयक्षाणां भयं जनयते महत् ॥०३-१८६-६१॥
निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह। अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥०३-१८६-६२॥
ततो योजनविंशानां सहस्राणि शतानि च। निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥०३-१८६-६३॥
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्। ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥०३-१८६-६४॥
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः। उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥०३-१८६-६५॥
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः। केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः ॥०३-१८६-६६॥
केचिद्धारिद्रसङ्काशाः काकाण्डकनिभास्तथा। केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः ॥०३-१८६-६७॥
केचित्पुरवराकाराः केचिद्गजकुलोपमाः। केचिदञ्जनसङ्काशाः केचिन्मकरसंस्थिताः ॥ विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ॥०३-१८६-६८॥
घोररूपा महाराज घोरस्वननिनादिताः। ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् ॥०३-१८६-६९॥
तैरियं पृथिवी सर्वा सपर्वतवनाकरा। आपूर्यते महाराज सलिलौघपरिप्लुता ॥०३-१८६-७०॥
ततस्ते जलदा घोरा राविणः पुरुषर्षभ। सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥०३-१८६-७१॥
वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम्। सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् ॥०३-१८६-७२॥
ततो द्वादश वर्षाणि पयोदास्त उपप्लवे। धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥०३-१८६-७३॥
ततः समुद्रः स्वां वेलामतिक्रामति भारत। पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते ॥०३-१८६-७४॥
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम्। संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥०३-१८६-७५॥
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप। आदिपद्मालयो देवः पीत्वा स्वपिति भारत ॥०३-१८६-७६॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे। नष्टे देवासुरगणे यक्षराक्षसवर्जिते ॥०३-१८६-७७॥
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे। अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः ॥०३-१८६-७८॥
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम। अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् ॥०३-१८६-७९॥
ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप। श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः ॥०३-१८६-८०॥
ततः कदाचित्पश्यामि तस्मिन्सलिलसम्प्लवे। न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥०३-१८६-८१॥
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप। पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥०३-१८६-८२॥
उपविष्टं महाराज पूर्णेन्दुसदृशाननम्। फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥०३-१८६-८३॥
ततो मे पृथिवीपाल विस्मयः सुमहानभूत्। कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥०३-१८६-८४॥
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये। भूतं भव्यं भविष्यच्च जानन्नपि नराधिप ॥०३-१८६-८५॥
अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः। साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे ॥०३-१८६-८६॥
ततो मामब्रवीद्बालः स पद्मनिभलोचनः। श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥०३-१८६-८७॥
जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम्। मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव ॥०३-१८६-८८॥
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम। आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया ॥०३-१८६-८९॥
ततो बालेन तेनैवमुक्तस्यासीत्तदा मम। निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥०३-१८६-९०॥
ततो बालेन तेनास्यं सहसा विवृतं कृतम्। तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः ॥०३-१८६-९१॥
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप। सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥०३-१८६-९२॥
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्। चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ॥०३-१८६-९३॥
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि। वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥०३-१८६-९४॥
नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम्। सुवेणां कृष्णवेणां च इरामां च महानदीम् ॥ शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि ॥०३-१८६-९५॥
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम। परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥०३-१८६-९६॥
ततः समुद्रं पश्यामि यादोगणनिषेवितम्। रत्नाकरममित्रघ्न निधानं पयसो महत् ॥०३-१८६-९७॥
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्। जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः ॥ पश्यामि च महीं राजन्काननैरुपशोभिताम् ॥०३-१८६-९८॥
यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः। क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने ॥०३-१८६-९९॥
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप। शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥०३-१८६-१००॥
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः। हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥०३-१८६-१०१॥
निषधं चापि पश्यामि श्वेतं च रजताचितम्। पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥०३-१८६-१०२॥
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्। पश्यामि च महाराज मेरुं कनकपर्वतम् ॥०३-१८६-१०३॥
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्। मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥०३-१८६-१०४॥
एते चान्ये च बहवो यावन्तः पृथिवीधराः। तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः ॥०३-१८६-१०५॥
सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप। पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ॥ तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥०३-१८६-१०६॥
कुक्षौ तस्य नरव्याघ्र प्रविष्टः सञ्चरन्दिशः। शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा ॥०३-१८६-१०७॥
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते। दैत्यदानवसङ्घांश्च कालेयांश्च नराधिप ॥ सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ॥०३-१८६-१०८॥
यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम्। तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः ॥ फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा ॥०३-१८६-१०९॥
अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम्। न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् ॥०३-१८६-११०॥
सततं धावमानश्च चिन्तयानो विशां पते। आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥०३-१८६-१११॥
ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा। वरेण्यं वरदं देवं मनसा कर्मणैव च ॥०३-१८६-११२॥
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः। महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥०३-१८६-११३॥
ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते। आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥०३-१८६-११४॥
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम्। आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥०३-१८६-११५॥
ततो मामब्रवीद्वीर स बालः प्रहसन्निव। श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥०३-१८६-११६॥
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम। उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे ॥०३-१८६-११७॥
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा। यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् ॥०३-१८६-११८॥
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ। सुजातौ मृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ ॥०३-१८६-११९॥
प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ। दृष्ट्वापरिमितं तस्य प्रभावममितौजसः ॥०३-१८६-१२०॥
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च। दृष्टो मया स भूतात्मा देवः कमललोचनः ॥०३-१८६-१२१॥
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम्। ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् ॥०३-१८६-१२२॥
आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव। दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव ॥०३-१८६-१२३॥
तव देव शरीरस्था देवदानवराक्षसाः। यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥०३-१८६-१२४॥
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते। द्रुतमन्तः शरीरे ते सततं परिधावतः ॥०३-१८६-१२५॥
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित। इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ॥ पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि ॥०३-१८६-१२६॥
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ। कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥०३-१८६-१२७॥
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया। त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् ॥ महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥०३-१८६-१२८॥
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः। सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः ॥०३-१८६-१२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.