Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.189
मार्कण्डेय उवाच॥
ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम्। वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ॥०३-१८९-१॥
स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः। वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति ॥०३-१८९-२॥
तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः। विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति ॥०३-१८९-३॥
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च। स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च ॥०३-१८९-४॥
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान्। कल्किश्चरिष्यति महीं सदा दस्युवधे रतः ॥०३-१८९-५॥
हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः। विक्रोशमानान्सुभृशं दस्यून्नेष्यति सङ्क्षयम् ॥०३-१८९-६॥
ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत। भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा ॥०३-१८९-७॥
आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा। यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ॥०३-१८९-८॥
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः। आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः ॥०३-१८९-९॥
जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह। सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ॥०३-१८९-१०॥
नरा दानेषु निरता व्रतेषु नियमेषु च। जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ॥ पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम् ॥०३-१८९-११॥
व्यवहाररता वैश्या भविष्यन्ति कृते युगे। षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ॥०३-१८९-१२॥
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च। एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ॥ पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः ॥०३-१८९-१३॥
सर्वलोकस्य विदिता युगसङ्ख्या च पाण्डव। एतत्ते सर्वमाख्यातमतीतानागतं मया ॥ वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् ॥०३-१८९-१४॥
एवं संसारमार्गा मे बहुशश्चिरजीविना। दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् ॥०३-१८९-१५॥
इदं चैवापरं भूयः सह भ्रातृभिरच्युत। धर्मसंशयमोक्षार्थं निबोध वचनं मम॥०३-१८९-१६॥
धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर। धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति ॥०३-१८९-१७॥
निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ। न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ॥ ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया ॥०३-१८९-१८॥
वैशम्पायन उवाच॥
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः। उवाच वचनं धीमान्परमं परमद्युतिः ॥०३-१८९-१९॥
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने। कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः ॥०३-१८९-२०॥
मार्कण्डेय उवाच॥
दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः। अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः ॥ चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय ॥०३-१८९-२१॥
प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय। अलं ते मानमाश्रित्य सततं परवान्भव ॥०३-१८९-२२॥
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव। एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ॥०३-१८९-२३॥
न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि। तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ॥०३-१८९-२४॥
एष कालो महाबाहो अपि सर्वदिवौकसाम्। मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः ॥०३-१८९-२५॥
मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ। अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ॥०३-१८९-२६॥
जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ। कर्मणा मनसा वाचा सर्वमेतत्समाचर ॥०३-१८९-२७॥
युधिष्ठिर उवाच॥
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्। तथा करिष्ये यत्नेन भवतः शासनं विभो ॥०३-१८९-२८॥
न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः। करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ॥०३-१८९-२९॥
वैशम्पायन उवाच॥
श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः। प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना ॥०३-१८९-३०॥
तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः। विस्मिताः समपद्यन्त पुराणस्य निवेदनात् ॥०३-१८९-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.