03.188
वैशम्पायन उवाच॥
एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ। द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् ॥०३-१८८-१॥
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना। सान्त्वयामास मानार्हान्मन्यमानो यथाविधि ॥०३-१८८-२॥
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्। पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् ॥०३-१८८-३॥
आश्चर्यभूतं भवतः श्रुतं नो वदतां वर। मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥०३-१८८-४॥
अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम। समाकुलेषु धर्मेषु किं नु शेषं भविष्यति ॥०३-१८८-५॥
किंवीर्या मानवास्तत्र किमाहारविहारिणः। किमायुषः किंवसना भविष्यन्ति युगक्षये ॥०३-१८८-६॥
कां च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम्। विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥०३-१८८-७॥
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत। रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः ॥०३-१८८-८॥
मार्कण्डेय उवाच॥
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ। कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥०३-१८८-९॥
कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः। वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा ॥०३-१८८-१०॥
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः। त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥०३-१८८-११॥
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति। चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ॥०३-१८८-१२॥
आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव। मनुष्याणामनुयुगं ह्रसतीति निबोध मे ॥०३-१८८-१३॥
राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर। व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ॥०३-१८८-१४॥
सत्यं सङ्क्षेप्स्यते लोके नरैः पण्डितमानिभिः। सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ॥०३-१८८-१५॥
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्। विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति ॥०३-१८८-१६॥
लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः। वैरबद्धा भविष्यन्ति परस्परवधेप्सवः ॥०३-१८८-१७॥
ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम्। शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ॥०३-१८८-१८॥
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः। ईदृशो भविता लोको युगान्ते पर्युपस्थिते ॥०३-१८८-१९॥
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः। भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ॥०३-१८८-२०॥
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम्। गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये ॥०३-१८८-२१॥
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः। अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥०३-१८८-२२॥
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः। ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥०३-१८८-२३॥
श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः। तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥०३-१८८-२४॥
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च। अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥०३-१८८-२५॥
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः। न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः ॥०३-१८८-२६॥
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः। एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥०३-१८८-२७॥
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा। निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते ॥०३-१८८-२८॥
म्लेच्छभूतं जगत्सर्वं निश्क्रियं यज्ञवर्जितम्। भविष्यति निरानन्दमनुत्सवमथो तथा ॥०३-१८८-२९॥
प्रायशः कृपणानां हि तथा बन्धुमतामपि। विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥०३-१८८-३०॥
अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः। तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः ॥ परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः ॥०३-१८८-३१॥
सङ्घातयन्तः कौन्तेय राजानः पापबुद्धयः। परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः ॥ भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥०३-१८८-३२॥
अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः। केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥०३-१८८-३३॥
आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च। भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत ॥०३-१८८-३४॥
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते। स्वयङ्ग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-३५॥
राजानश्चाप्यसन्तुष्टाः परार्थान्मूढचेतसः। सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-३६॥
म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत। हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते ॥०३-१८८-३७॥
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः। स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥०३-१८८-३८॥
भीरवः शूरमानीनः शूरा भीरुविषादिनः। न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥०३-१८८-३९॥
एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम्। अधर्मो वर्धति महान्न च धर्मः प्रवर्तते ॥०३-१८८-४०॥
ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप। एकवर्णस्तदा लोको भविष्यति युगक्षये ॥०३-१८८-४१॥
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा। भार्या च पतिशुश्रूषां न करिष्यति काचन ॥०३-१८८-४२॥
ये यवान्ना जनपदा गोधूमान्नास्तथैव च। तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-४३॥
स्वैराहाराश्च पुरुषा योषितश्च विशां पते। अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-४४॥
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर। न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः ॥०३-१८८-४५॥
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः। तमोग्रस्तस्तदा लोको भविष्यति नराधिप ॥०३-१८८-४६॥
परमायुश्च भविता तदा वर्षाणि षोडश। ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-४७॥
पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते। सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥०३-१८८-४८॥
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति। युगान्ते राजशार्दूल न तोषमुपयास्यति ॥०३-१८८-४९॥
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति। न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥०३-१८८-५०॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ॥०३-१८८-५१॥
म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु। भाविनः पश्चिमे काले मनुष्या नात्र संशयः ॥०३-१८८-५२॥
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम्। युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति ॥०३-१८८-५३॥
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा। आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते ॥०३-१८८-५४॥
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः। भवितारो जनाः सर्वे सम्प्राप्ते युगसङ्क्षये ॥०३-१८८-५५॥
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः। भविता सङ्क्षयो लोके जीवितस्य च देहिनाम् ॥०३-१८८-५६॥
तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम्। ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते ॥०३-१८८-५७॥
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः। त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् ॥०३-१८८-५८॥
जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः। यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम् ॥०३-१८८-५९॥
आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च। प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥०३-१८८-६०॥
दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः। कुराजभिश्च सततं करभारप्रपीडिताः ॥०३-१८८-६१॥
धैर्यं त्यक्त्वा महीपाल दारुणे युगसङ्क्षये। विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥०३-१८८-६२॥
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः। श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥०३-१८८-६३॥
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः। एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ॥ शूद्राः परिचरिष्यन्ति न द्विजान्युगसङ्क्षये ॥०३-१८८-६४॥
आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च। देवस्थानेषु चैत्येषु नागानामालयेषु च ॥०३-१८८-६५॥
एडूकचिह्ना पृथिवी न देवगृहभूषिता। भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥०३-१८८-६६॥
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा। भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम् ॥०३-१८८-६७॥
पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम्। प्रजास्यति महाराज तदा सङ्क्षेप्स्यते युगम् ॥०३-१८८-६८॥
अकालवर्षी पर्जन्यो भविष्यति गते युगे। अक्रमेण मनुष्याणां भविष्यति तदा क्रिया ॥ विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह ॥०३-१८८-६९॥
मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात्। करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ॥०३-१८८-७०॥
निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः। आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः ॥०३-१८८-७१॥
एवं पर्याकुले लोके मर्यादा न भविष्यति। न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥०३-१८८-७२॥
आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम्। अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः ॥ अभावः सर्वभूतानां युगान्ते च भविष्यति ॥०३-१८८-७३॥
दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च। ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा ॥ उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥०३-१८८-७४॥
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति। तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ॥ कबन्धान्तर्हितो भानुरुदयास्तमये तदा ॥०३-१८८-७५॥
अकालवर्षी च तदा भविष्यति सहस्रदृक्। सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-७६॥
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः। भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः ॥०३-१८८-७७॥
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये। सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥०३-१८८-७८॥
अपर्वणि महाराज सूर्यं राहुरुपैष्यति। युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति ॥०३-१८८-७९॥
पानीयं भोजनं चैव याचमानास्तदाध्वगाः। न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥०३-१८८-८०॥
निर्घातवायसा नागाः शकुनाः समृगद्विजाः। रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-८१॥
मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा। जनं परिजनं चापि युगान्ते पर्युपस्थिते ॥०३-१८८-८२॥
अथ देशान्दिशश्चापि पत्तनानि पुराणि च। क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥०३-१८८-८३॥
हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः। विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥०३-१८८-८४॥
ततस्तुमुलसङ्घाते वर्तमाने युगक्षये। द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥०३-१८८-८५॥
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये। भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥०३-१८८-८६॥
यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती। एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥०३-१८८-८७॥
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च। प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ॥ क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥०३-१८८-८८॥
कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः। उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥०३-१८८-८९॥
सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे। मनसा तस्य सर्वाणि वाहनान्यायुधानि च ॥ उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥०३-१८८-९०॥
स धर्मविजयी राजा चक्रवर्ती भविष्यति। स चेमं सङ्कुलं लोकं प्रसादमुपनेष्यति ॥०३-१८८-९१॥
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः। स सङ्क्षेपो हि सर्वस्य युगस्य परिवर्तकः ॥०३-१८८-९२॥
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः। उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः ॥०३-१८८-९३॥