03.190
मण्डूकोपाख्यानम्
वैशम्पायन उवाच॥
भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥०३-१९०-१॥
अथाचष्ट मार्कण्डेयः ॥०३-१९०-२॥
अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् ॥०३-१९०-३॥
तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् ॥०३-१९०-४॥
अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् तच्च विवेश ॥०३-१९०-५॥
ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥०३-१९०-६॥
अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ॥०३-१९०-७॥
ततः शयानो मधुरं गीतशब्दमशृणोत् ॥०३-१९०-८॥
स श्रुत्वाचिन्तयत् नेह मनुष्यगतिं पश्यामि कस्य खल्वयं गीतशब्द इति ॥०३-१९०-९॥
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च ॥०३-१९०-१०॥
अथ सा राज्ञः समीपे पर्यक्रामत् ॥०३-१९०-११॥
तामब्रवीद्राजा कस्यासि सुभगे त्वमिति ॥०३-१९०-१२॥
सा प्रत्युवाच कन्यास्मीति ॥०३-१९०-१३॥
तां राजोवाच अर्थी त्वयाहमिति ॥०३-१९०-१४॥
अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुम् नान्यथेति ॥०३-१९०-१५॥
तां राजा समयमपृच्छत् ॥०३-१९०-१६॥
ततः कन्येदमुवाच उदकं मे न दर्शयितव्यमिति ॥०३-१९०-१७॥
स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते ॥०३-१९०-१८॥
तत्रैवासीने राजनि सेनान्वगच्छत् पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ॥०३-१९०-१९॥
पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते नान्यत्किञ्चनापश्यत् ॥०३-१९०-२०॥
अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् किमत्र प्रयोजनं वर्तत इति ॥०३-१९०-२१॥
अथाब्रुवंस्ताः स्त्रियः अपूर्वमिव पश्याम उदकं नात्र नीयतेति ॥०३-१९०-२२॥
अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् वनमिदमुदारमनुदकम् साध्वत्र रम्यतामिति ॥०३-१९०-२३॥
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्त स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत् अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् ॥०३-१९०-२४॥
तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् ॥०३-१९०-२५॥
दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ॥०३-१९०-२६॥
अथ तां देवीं स राजाब्रवीत् साध्ववतर वापीसलिलमिति ॥०३-१९०-२७॥
सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् न पुनरुदमज्जत् ॥०३-१९०-२८॥
तां मृगयमाणो राजा नापश्यत् ॥०३-१९०-२९॥
वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास सर्वमण्डूकवधः क्रियतामिति यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति ॥०३-१९०-३०॥
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥०३-१९०-३१॥
ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् ॥०३-१९०-३२॥
उपेत्य चैनमुवाच
मा राजन्क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति ॥०३-१९०-३३॥
श्लोकौ चात्र भवतः मा मण्डूकाञ्जिघांस त्वं कोपं सन्धारयाच्युत। प्रक्षीयते धनोद्रेको जनानामविजानताम् ॥०३-१९०-३४॥
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे। अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥०३-१९०-३५॥
तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच न हि क्षम्यते तन्मया हनिष्याम्येतान् एतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूकाः नार्हसि विद्वन्मामुपरोद्धुमिति ॥०३-१९०-३६॥
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन् अहमायुर्नाम मण्डूकराजः मम सा दुहिता सुशोभना नाम तस्या दौःशील्यमेतत् बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ॥०३-१९०-३७॥
तमब्रवीद्राजा तयास्म्यर्थी सा मे दीयतामिति ॥०३-१९०-३८॥
अथैनां राज्ञे पितादात् अब्रवीच्चैनाम् एनं राजानं शुश्रूषस्वेति ॥०३-१९०-३९॥
स उवाच दुहितरम् यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति ॥०३-१९०-४०॥
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् अनुगृहीतोऽस्मीति ॥०३-१९०-४१॥
स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् ॥०३-१९०-४२॥
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥०३-१९०-४३॥
अथ कदाचिच्छलो मृगयामचरत् मृगं चासाद्य रथेनान्वधावत् ॥०३-१९०-४४॥
सूतं चोवाच शीघ्रं मां वहस्वेति ॥०३-१९०-४५॥
स तथोक्तः सूतो राजानमब्रवीत् मा क्रियतामनुबन्धः नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ॥०३-१९०-४६॥
ततोऽब्रवीद्राजा सूतम् आचक्ष्व मे वाम्यौ हन्मि वा त्वामिति ॥०३-१९०-४७॥
स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥०३-१९०-४८॥
अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं याहीति ॥०३-१९०-४९॥
स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् भगवन्मृगो मया विद्धः पलायते तं सम्भावयेयम् अर्हसि मे वाम्यौ दातुमिति ॥०३-१९०-५०॥
तमब्रवीदृषिः ददानि ते वाम्यौ कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति ॥०३-१९०-५१॥
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति गच्छंश्चाब्रवीत्सूतम् अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् नैतौ प्रतिदेयौ वामदेवायेति ॥०३-१९०-५२॥
एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥०३-१९०-५३॥
अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे प्रतिनिर्यातयति अहो कष्टमिति ॥०३-१९०-५४॥
मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ॥०३-१९०-५५॥
स गत्वैवं तं राजानमब्रवीत् ॥०३-१९०-५६॥
तं राजा प्रत्युवाच राज्ञामेतद्वाहनम् अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् किं च ब्राह्मणानामश्वैः कार्यम् साधु प्रतिगम्यतामिति ॥०३-१९०-५७॥
स गत्वैवमुपाध्यायायाचष्ट ॥०३-१९०-५८॥
तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् न चादाद्राजा ॥०३-१९०-५९॥
वामदेव उवाच॥
प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यमन्यैरशक्यम्। मा त्वा वधीद्वरुणो घोरपाशै; र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥०३-१९०-६०॥
राजोवाच॥
अनड्वाहौ सुव्रतौ साधु दान्ता; वेतद्विप्राणां वाहनं वामदेव। ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति ॥०३-१९०-६१॥
वामदेव उवाच॥
छन्दांसि वै मादृशं संवहन्ति; लोकेऽमुष्मिन्पार्थिव यानि सन्ति। अस्मिंस्तु लोके मम यानमेत; दस्मद्विधानामपरेषां च राजन् ॥०३-१९०-६२॥
राजोवाच॥
चत्वारो वा गर्दभास्त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरङ्गाः। तैस्त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि ॥०३-१९०-६३॥
वामदेव उवाच॥
घोरं व्रतं ब्राह्मणस्यैतदाहु; रेतद्राजन्यदिहाजीवमानः। अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश्चतुर्धा ॥०३-१९०-६४॥
राजोवाच॥
ये त्वा विदुर्ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा। ते त्वां सशिष्यमिह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥०३-१९०-६५॥
वामदेव उवाच॥
नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन्मनसा कर्मणा वा। यस्त्वेवं ब्रह्म तपसान्वेति विद्वां; स्तेन श्रेष्ठो भवति हि जीवमानः ॥०३-१९०-६६॥
मार्कण्डेय उवाच॥
एवमुक्ते वामदेवेन राज; न्समुत्तस्थू राक्षसा घोररूपाः। तैः शूलहस्तैर्वध्यमानः स राजा; प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥०३-१९०-६७॥
इक्ष्वाकवो यदि ब्रह्मन्दलो वा; विधेया मे यदि वान्ये विशोऽपि। नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति ॥०३-१९०-६८॥
एवं ब्रुवन्नेव स यातुधानै; र्हतो जगामाशु महीं क्षितीशः। ततो विदित्वा नृपतिं निपातित; मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥०३-१९०-६९॥
राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः। दलं राजानं ब्राह्मणानां हि देय; मेवं राजन्सर्वधर्मेषु दृष्टम् ॥०३-१९०-७०॥
बिभेषि चेत्त्वमधर्मान्नरेन्द्र; प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ। एतच्छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतमुवाच रोषात् ॥०३-१९०-७१॥
एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर सङ्गृहीतम्। येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिरार्तरूपः ॥०३-१९०-७२॥
वामदेव उवाच॥
जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र। तं जहि त्वं मद्वचनात्प्रणुन्न; स्तूर्णं प्रियं सायकैर्घोररूपैः ॥०३-१९०-७३॥
मार्कण्डेय उवाच॥
एवमुक्तो वामदेवेन राज; न्नन्तःपुरे राजपुत्रं जघान। स सायकस्तिग्मतेजा विसृष्टः; श्रुत्वा दलस्तच्च वाक्यं बभाषे ॥०३-१९०-७४॥
इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रमद्य प्रमथ्य। आनीयतामपरस्तिग्मतेजाः; पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥०३-१९०-७५॥
वामदेव उवाच॥
यं त्वमेनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि। न त्वमेनं शरवर्यं विमोक्तुं; सन्धातुं वा शक्ष्यसि मानवेन्द्र ॥०३-१९०-७६॥
राजोवाच॥
इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्येष शरं विमोक्तुम्। न चास्य कर्तुं नाशमभ्युत्सहामि; आयुष्मान्वै जीवतु वामदेवः ॥०३-१९०-७७॥
वामदेव उवाच॥
संस्पृशैनां महिषीं सायकेन; ततस्तस्मादेनसो मोक्ष्यसे त्वम्। मार्कण्डेय उवाच॥
ततस्तथा कृतवान्पार्थिवस्तु; ततो मुनिं राजपुत्री बभाषे। यथा युक्तं वामदेवाहमेनं; दिने दिने संविशन्ती व्यशंसम् ॥०३-१९०-७९॥
ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥०३-१९०-७९॥
वामदेव उवाच॥
त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते। प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥०३-१९०-८०॥
राजपुत्र्युवाच॥
वरं वृणे भगवन्नेकमेव; विमुच्यतां किल्बिषादद्य भर्ता। शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्येष मया द्विजाग्र्य ॥०३-१९०-८१॥
मार्कण्डेय उवाच॥
श्रुत्वा वचः स मुनी राजपुत्र्या; स्तथास्त्विति प्राह कुरुप्रवीर। ततः स राजा मुदितो बभूव; वाम्यौ चास्मै सम्प्रददौ प्रणम्य ॥०३-१९०-८२॥