Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.191
इन्द्रद्युम्नोपाख्यानम्
वैशम्पायन उवाच॥
मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् अस्ति कश्चिद्भवतश्चिरजाततर इति ॥०३-१९१-१॥
स तानुवाच अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः कीर्तिस्ते व्युच्छिन्नेति स मामुपातिष्ठत् अथ प्रत्यभिजानाति मां भवानिति ॥०३-१९१-२॥
तमहमब्रुवम् न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ॥०३-१९१-३॥
अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः स भवन्तं यदि जानीयात् प्रकृष्टे चाध्वनि हिमवान् तत्रासौ प्रतिवसतीति ॥०३-१९१-४॥
स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ॥०३-१९१-५॥
अथैनं स राजर्षिः पर्यपृच्छत् प्रत्यभिजानाति मां भवानिति ॥०३-१९१-६॥
स मुहूर्तं ध्यात्वाब्रवीदेनम् नाभिजाने भवन्तमिति ॥०३-१९१-७॥
स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् अस्ति कश्चिद्भवतश्चिरजाततर इति ॥०३-१९१-८॥
स एवमुक्तोऽब्रवीदेनम् अस्ति खल्विन्द्रद्युम्नसरो नाम तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति सोऽस्मत्तश्चिरजाततरः तं पृच्छेति ॥०३-१९१-९॥
तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ॥०३-१९१-१०॥
सोऽस्माभिः पृष्टः भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति ॥०३-१९१-११॥
स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥०३-१९१-१२॥
ततः सोऽस्माभिः पृष्टः अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ॥०३-१९१-१३॥
स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति स मत्तश्चिरजाततर इति स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ॥०३-१९१-१४॥
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुम् साध्वागम्यतां तावदिति ॥०३-१९१-१५॥
एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ॥०३-१९१-१६॥
आगतं चैनं वयमपृच्छाम भवानिन्द्रद्युम्नं राजानमभिजानातीति ॥०३-१९१-१७॥
स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत् किमहमेनं न प्रत्यभिजानामि अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् अत्र चाहं प्रतिवसामीति ॥०३-१९१-१८॥
अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ॥०३-१९१-१९॥
वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गः यथोचितं स्थानमभिपद्यस्व कीर्तिमानसि अव्यग्रो याहीति ॥०३-१९१-२०॥
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः। यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥०३-१९१-२१॥
अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित्। पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते ॥०३-१९१-२२॥
तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि। विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ॥०३-१९१-२३॥
इत्येतच्छ्रुत्वा स राजाब्रवीत् तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ॥०३-१९१-२४॥
स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ॥०३-१९१-२५॥
एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ॥०३-१९१-२६॥
पाण्डवाश्चोचुः प्रीताः साधु शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ॥०३-१९१-२७॥
अथैनानब्रवीदसौ ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति ॥०३-१९१-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.