Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.192
धुन्धुमारोपाख्यानम्
वैशम्पायन उवाच॥
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ। मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥०३-१९२-१॥
विदितास्तव धर्मज्ञ देवदानवराक्षसाः। राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥ न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम ॥०३-१९२-२॥
कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम्। एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज ॥०३-१९२-३॥
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः। कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥०३-१९२-४॥
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम। विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ॥०३-१९२-५॥
मार्कण्डेय उवाच॥
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर। धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥०३-१९२-६॥
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः। धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥०३-१९२-७॥
महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत। मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥०३-१९२-८॥
उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम्। आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ॥०३-१९२-९॥
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान्। दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ॥०३-१९२-१०॥
त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः। स्थावराणि च भूतानि जङ्गमानि तथैव च ॥ ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ॥०३-१९२-११॥
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ। निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ॥ बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥०३-१९२-१२॥
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन। पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ॥०३-१९२-१३॥
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः। प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥०३-१९२-१४॥
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर। योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥०३-१९२-१५॥
त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम्। भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥०३-१९२-१६॥
देवानां मानुषाणां च सर्वभूतसुखावहः। त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ॥ असुराणां समृद्धानां विनाशश्च त्वया कृतः ॥०३-१९२-१७॥
तव विक्रमणैर्देवा निर्वाणमगमन्परम्। पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ॥०३-१९२-१८॥
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः। आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ॥०३-१९२-१९॥
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना। उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥०३-१९२-२०॥
उत्तङ्क उवाच॥
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम्। पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥०३-१९२-२१॥
विष्णुरुवाच॥
प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम। अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥०३-१९२-२२॥
एवं सञ्छन्द्यमानस्तु वरेण हरिणा तदा। उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥०३-१९२-२३॥
यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः। धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ॥ अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर ॥०३-१९२-२४॥
विष्णुरुवाच॥
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज। प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ॥ त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥०३-१९२-२५॥
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः। तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥०३-१९२-२६॥
बृहदश्व इति ख्यातो भविष्यति महीपतिः। तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ॥०३-१९२-२७॥
स योगबलमास्थाय मामकं पार्थिवोत्तमः। शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥०३-१९२-२८॥
मार्कण्डेय उवाच॥
उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत।

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.