03.194
मार्कण्डेय उवाच॥
स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः। उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् ॥०३-१९४-१॥
न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति। पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ॥०३-१९४-२॥
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि। प्रियं वै सर्वमेतत्ते करिष्यति न संशयः ॥०३-१९४-३॥
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः। विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि साम्प्रतम् ॥०३-१९४-४॥
तथास्त्विति च तेनोक्तो मुनिनामिततेजसा। स तमादिश्य तनयमुत्तङ्काय महात्मने ॥ क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ॥०३-१९४-५॥
युधिष्ठिर उवाच॥
क एष भगवन्दैत्यो महावीर्यस्तपोधन। कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ॥०३-१९४-६॥
एवं महाबलो दैत्यो न श्रुतो मे तपोधन। एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ॥ सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ॥०३-१९४-७॥
मार्कण्डेय उवाच॥
शृणु राजन्निदं सर्वं यथावृत्तं नराधिप। एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे ॥ प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥०३-१९४-८॥
प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः। सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह ॥ नागस्य भोगे महति शेषस्यामिततेजसः ॥०३-१९४-९॥
लोककर्ता महाभाग भगवानच्युतो हरिः। नागभोगेन महता परिरभ्य महीमिमाम् ॥०३-१९४-१०॥
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम्। नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः ॥ साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे ॥०३-१९४-११॥
चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः। स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ॥०३-१९४-१२॥
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ। मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ॥०३-१९४-१३॥
शयानं शयने दिव्ये नागभोगे महाद्युतिम्। बहुयोजनविस्तीर्णे बहुयोजनमायते ॥०३-१९४-१४॥
किरीटकौस्तुभधरं पीतकौशेयवाससम्। दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा ॥ सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ॥०३-१९४-१५॥
विस्मयः सुमहानासीन्मधुकैटभयोस्तदा। दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् ॥०३-१९४-१६॥
वित्रासयेतामथ तौ ब्रह्माणममितौजसम्। वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः ॥ अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ॥०३-१९४-१७॥
अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ। दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ॥ ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते ॥०३-१९४-१८॥
तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ। प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ॥०३-१९४-१९॥
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम। दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ॥०३-१९४-२०॥
भगवानुवाच॥
प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम। युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान् ॥०३-१९४-२१॥
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ। एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ॥०३-१९४-२२॥
मधुकैटभावूचतुः॥
अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा। सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ॥०३-१९४-२३॥
बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ। धर्मे तपसि दाने च शीलसत्त्वदमेषु च ॥०३-१९४-२४॥
उपप्लवो महानस्मानुपावर्तत केशव। उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ॥०३-१९४-२५॥
आवामिच्छावहे देव कृतमेकं त्वया विभो। अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम ॥०३-१९४-२६॥
पुत्रत्वमभिगच्छाव तव चैव सुलोचन। वर एष वृतो देव तद्विद्धि सुरसत्तम ॥०३-१९४-२७॥
भगवानुवाच॥
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति। मार्कण्डेय उवाच॥
विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम्। अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ॥०३-१९४-२९॥
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा। मधुकैटभयो राजञ्शिरसी मधुसूदनः ॥ चक्रेण शितधारेण न्यकृन्तत महायशाः ॥०३-१९४-३०॥