03.193
मार्कण्डेय उवाच॥
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम्। प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥०३-१९३-१॥
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्। अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥०३-१९३-२॥
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान्। आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥०३-१९३-३॥
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता। श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ॥ बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ॥०३-१९३-४॥
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः। सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥०३-१९३-५॥
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत्। समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् ॥ कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥०३-१९३-६॥
पुत्रसङ्क्रामितश्रीस्तु बृहदश्वो महीपतिः। जगाम तपसे धीमांस्तपोवनममित्रहा ॥०३-१९३-७॥
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर। वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥०३-१९३-८॥
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम्। न्यवारयदमेयात्मा समासाद्य नरोत्तमम् ॥०३-१९३-९॥
उत्तङ्क उवाच॥
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि। निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि ॥०३-१९३-१०॥
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना। भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥०३-१९३-११॥
पालने हि महान्धर्मः प्रजानामिह दृश्यते। न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी ॥०३-१९३-१२॥
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते। प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ॥ रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥०३-१९३-१३॥
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव। ममाश्रमसमीपे वै समेषु मरुधन्वसु ॥०३-१९३-१४॥
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः। बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥०३-१९३-१५॥
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः। मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ॥०३-१९३-१६॥
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः। तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥०३-१९३-१७॥
शेते लोकविनाशाय तप आस्थाय दारुणम्। त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥०३-१९३-१८॥
अवध्यो देवतानां स दैत्यानामथ रक्षसाम्। नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ॥ अवाप्य स वरं राजन्सर्वलोकपितामहात् ॥०३-१९३-१९॥
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा। प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥०३-१९३-२०॥
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै। संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते ॥ यदा तदा भूश्चलति सशैलवनकानना ॥०३-१९३-२१॥
तस्य निःश्वासवातेन रज उद्धूयते महत्। आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ॥०३-१९३-२२॥
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे। तं विनाशय राजेन्द्र लोकानां हितकाम्यया ॥ लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ॥०३-१९३-२३॥
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः। तेजसा तव तेजश्च विष्णुराप्याययिष्यति ॥०३-१९३-२४॥
विष्णुना च वरो दत्तो मम पूर्वं ततो वधे। यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ॥ तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥०३-१९३-२५॥
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम्। तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् ॥०३-१९३-२६॥
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते। निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥०३-१९३-२७॥