03.212
मार्कण्डेय उवाच॥
आपस्य मुदिता भार्या सहस्य परमा प्रिया। भूपतिर्भुवभर्ता च जनयत्पावकं परम् ॥०३-२१२-१॥
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम्। आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ॥०३-२१२-२॥
महतां चैव भूतानां सर्वेषामिह यः पतिः। भगवान्स महातेजा नित्यं चरति पावकः ॥०३-२१२-३॥
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते। हुतं वहति यो हव्यमस्य लोकस्य पावकः ॥०३-२१२-४॥
अपां गर्भो महाभागः सहपुत्रो महाद्भुतः। भूपतिर्भुवभर्ता च महतः पतिरुच्यते ॥०३-२१२-५॥
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत्। अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ॥०३-२१२-६॥
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्। देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ॥०३-२१२-७॥
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्। देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ॥ अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥०३-२१२-८॥
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्। मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ॥०३-२१२-९॥
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्। अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥०३-२१२-१०॥
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः। नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ॥०३-२१२-११॥
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा। भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ॥०३-२१२-१२॥
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च। श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ॥०३-२१२-१३॥
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः। नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् ॥ शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ॥०३-२१२-१४॥
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः। भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ॥०३-२१२-१५॥
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी। दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ॥०३-२१२-१६॥
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्। अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ॥०३-२१२-१७॥
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम्। मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ॥०३-२१२-१८॥
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा। आहूतः सर्वभूतानां हव्यं वहति सर्वदा ॥०३-२१२-१९॥
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्। विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥०३-२१२-२०॥
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती। गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया ॥०३-२१२-२१॥
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा। ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥०३-२१२-२२॥
तमसा नर्मदा चैव नदी गोदावरी तथा। वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ॥०३-२१२-२३॥
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा। कृष्णा च कृष्णवेण्णा च कपिला शोण एव च ॥ एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥०३-२१२-२४॥
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः। यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च ॥०३-२१२-२५॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः। अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥ तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ॥०३-२१२-२६॥
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया। अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ॥०३-२१२-२७॥
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्। तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ॥०३-२१२-२८॥
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः। बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥०३-२१२-२९॥
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया। पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥०३-२१२-३०॥