03.211
मार्कण्डेय उवाच॥
गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः। अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ॥ भरत्येष प्रजाः सर्वास्ततो भरत उच्यते ॥०३-२११-१॥
अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः। दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥०३-२११-२॥
तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत्। उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ॥०३-२११-३॥
ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते। अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् ॥०३-२११-४॥
शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः। आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥०३-२११-५॥
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्। अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥०३-२११-६॥
प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवाम्पतिः। असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ॥०३-२११-७॥
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत्। बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥०३-२११-८॥
भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा। असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् ॥०३-२११-९॥
दुर्बलानां तु भूतानां तनुं यः सम्प्रयच्छति। तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् ॥०३-२११-१०॥
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः। अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः ॥०३-२११-११॥
दर्शे च पौर्णमासे च यस्येह हविरुच्यते। विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः ॥०३-२११-१२॥
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्। अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥०३-२११-१३॥
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः। चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥०३-२११-१४॥
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा। मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥०३-२११-१५॥
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः। पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥०३-२११-१६॥
अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते। सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः ॥ ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥०३-२११-१७॥
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता। कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः ॥०३-२११-१८॥
प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम्। तस्य संनिहितो नाम शब्दरूपस्य साधनः ॥०३-२११-१९॥
शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्। अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ॥०३-२११-२०॥
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा। अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ॥०३-२११-२१॥
अग्निर्यच्छति भूतानि येन भूतानि नित्यदा। कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥०३-२११-२२॥
इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि। अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ॥०३-२११-२३॥
संस्पृशेयुर्यदान्योन्यं कथञ्चिद्वायुनाग्नयः। इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥०३-२११-२४॥
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल। इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥०३-२११-२५॥
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना। इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥०३-२११-२६॥
अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम्। इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये ॥०३-२११-२७॥
मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा। इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये ॥०३-२११-२८॥
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः। इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये ॥०३-२११-२९॥
दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम्। इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥०३-२११-३०॥
सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम्। इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ॥०३-२११-३१॥