03.213
मण्डेय उवाच॥
अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ। शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ॥०३-२१३-१॥
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्। जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥०३-२१३-२॥
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्। तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥०३-२१३-३॥
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः। स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥०३-२१३-४॥
देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः। पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥०३-२१३-५॥
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्। शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥०३-२१३-६॥
अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह। पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥०३-२१३-७॥
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव। एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥०३-२१३-८॥
किरीटिनं गदापाणिं धातुमन्तमिवाचलम्। हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् ॥०३-२१३-९॥
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि। वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ॥०३-२१३-१०॥
केश्युवाच॥
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया। क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ॥०३-२१३-११॥
मार्कण्डेय उवाच॥
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै। तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥०३-२१३-१२॥
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्। तदापतन्तं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः ॥ बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥०३-२१३-१३॥
पतता तु तदा केशी तेन शृङ्गेण ताडितः। हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥०३-२१३-१४॥
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्। कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ॥०३-२१३-१५॥
कन्योवाच॥
अहं प्रजापतेः कन्या देवसेनेति विश्रुता। भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता ॥०३-२१३-१६॥
सहैवावां भगिन्यौ तु सखीभिः सह मानसम्। आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् ॥०३-२१३-१७॥
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः। इच्छत्येनं दैत्यसेना न त्वहं पाकशासन ॥०३-२१३-१८॥
सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु। त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥०३-२१३-१९॥
इन्द्र उवाच॥
मम मातृष्वसेया त्वं माता दाक्षायणी मम। आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥०३-२१३-२०॥
कन्योवाच॥
अबलाहं महाबाहो पतिस्तु बलवान्मम। वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥०३-२१३-२१॥
इन्द्र उवाच॥
कीदृशं वै बलं देवि पत्युस्तव भविष्यति। एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥०३-२१३-२२॥
कन्योवाच॥
देवदानवयक्षाणां किंनरोरगरक्षसाम्। जेता स दृष्टो दुष्टानां महावीर्यो महाबलः ॥०३-२१३-२३॥
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति। स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥०३-२१३-२४॥
मार्कण्डेय उवाच॥
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्। अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते ॥०३-२१३-२५॥
अथापश्यत्स उदये भास्करं भास्करद्युतिः। सोमं चैव महाभागं विशमानं दिवाकरम् ॥०३-२१३-२६॥
अमावास्यां सम्प्रवृत्तं मुहूर्तं रौद्रमेव च। देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ ॥०३-२१३-२७॥
लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः। अपश्यल्लोहितोदं च भगवान्वरुणालयम् ॥०३-२१३-२८॥
भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः। हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥०३-२१३-२९॥
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्। तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् ॥०३-२१३-३०॥
समालोक्यैकतामेव शशिनो भास्करस्य च। समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् ॥०३-२१३-३१॥
एष रौद्रश्च सङ्घातो महान्युक्तश्च तेजसा। सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ॥ जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ॥०३-२१३-३२॥
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता। एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ॥०३-२१३-३३॥
एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः। गृहीत्वा देवसेनां तामवन्दत्स पितामहम् ॥ उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश ॥०३-२१३-३४॥
ब्रह्मोवाच॥
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन। तथा स भविता गर्भो बलवानुरुविक्रमः ॥०३-२१३-३५॥
स भविष्यति सेनानीस्त्वया सह शतक्रतो। अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥०३-२१३-३६॥
मार्कण्डेय उवाच॥
एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया। तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् ॥ वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ॥०३-२१३-३७॥
भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे। पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ॥०३-२१३-३८॥
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने। जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ॥०३-२१३-३९॥
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात्। विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः ॥ आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥०३-२१३-४०॥
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः। ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥०३-२१३-४१॥
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्। स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् ॥०३-२१३-४२॥
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः। हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः ॥०३-२१३-४३॥
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः। पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥०३-२१३-४४॥
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत्। साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् ॥०३-२१३-४५॥
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः। गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥०३-२१३-४६॥
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः। पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥०३-२१३-४७॥
निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः। मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥०३-२१३-४८॥
कामसन्तप्तहृदयो देहत्यागे सुनिश्चितः। अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः ॥०३-२१३-४९॥
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा। सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी ॥ अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता ॥०३-२१३-५०॥
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम्। तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी ॥०३-२१३-५१॥
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्। कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ॥ एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ॥०३-२१३-५२॥