03.214
मार्कण्डेय उवाच॥
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता। तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ॥ जगाम पावकाभ्याशं तं चोवाच वराङ्गना ॥०३-२१४-१॥
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि। करिष्यसि न चेदेवं मृतां मामुपधारय ॥०३-२१४-२॥
अहमङ्गिरसो भार्या शिवा नाम हुताशन। सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥०३-२१४-३॥
अग्निरुवाच॥
कथं मां त्वं विजानीषे कामार्तमितराः कथम्। यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥०३-२१४-४॥
शिवोवाच॥
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव। त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ॥०३-२१४-५॥
मैथुनायेह सम्प्राप्ता कामं प्राप्तं द्रुतं चर। मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ॥०३-२१४-६॥
मार्कण्डेय उवाच॥
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः। प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ॥०३-२१४-७॥
अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने। ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥०३-२१४-८॥
तस्मादेतद्रक्ष्यमाणा गरुडी सम्भवाम्यहम्। वनान्निर्गमनं चैव सुखं मम भविष्यति ॥०३-२१४-९॥
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्। अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥०३-२१४-१०॥
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः। रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ॥ राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः ॥०३-२१४-११॥
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्। प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती ॥०३-२१४-१२॥
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्। पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥०३-२१४-१३॥
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया। तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥०३-२१४-१४॥
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम। तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥०३-२१४-१५॥
तत्स्कन्नं तेजसा तत्र सम्भृतं जनयत्सुतम्। ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः ॥०३-२१४-१६॥
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः। एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥०३-२१४-१७॥
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ। अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः ॥०३-२१४-१८॥
लोहिताभ्रेण महता संवृतः सह विद्युता। लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥०३-२१४-१९॥
गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम्। न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥०३-२१४-२०॥
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा। संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् ॥०३-२१४-२१॥
तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम्। उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥०३-२१४-२२॥
तावापतन्तौ सम्प्रेक्ष्य स बालार्कसमद्युतिः। द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ॥ अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ॥०३-२१४-२३॥
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्। गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः ॥०३-२१४-२४॥
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम्। प्राध्मापयत भूतानां त्रासनं बलिनामपि ॥०३-२१४-२५॥
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः। क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् ॥ पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥०३-२१४-२६॥
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः। व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ॥ स पश्यन्विविधान्भावांश्चकार निनदं पुनः ॥०३-२१४-२७॥
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः। भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ॥०३-२१४-२८॥
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः। तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥०३-२१४-२९॥
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान्। धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥०३-२१४-३०॥
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम्। तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥०३-२१४-३१॥
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन्। तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ॥०३-२१४-३२॥
स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः। न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ॥०३-२१४-३३॥
सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना। बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥०३-२१४-३४॥
स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह। उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥०३-२१४-३५॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः। आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥०३-२१४-३६॥
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः। अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥०३-२१४-३७॥