03.215
मार्कण्डेय उवाच॥
ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान्। अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥०३-२१५-१॥
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः। तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् ॥ सङ्गम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥०३-२१५-२॥
अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः। यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ॥ न तु तत्स्वाहया कर्म कृतं जानाति वै जनः ॥०३-२१५-३॥
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति। उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥०३-२१५-४॥
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्। तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् ॥०३-२१५-५॥
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः। सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ॥ अहं जाने नैतदेवमिति राजन्पुनः पुनः ॥०३-२१५-६॥
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः। पावकं कामसन्तप्तमदृष्टः पृष्ठतोऽन्वगात् ॥ तत्तेन निखिलं सर्वमवबुद्धं यथातथम् ॥०३-२१५-७॥
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः। स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ॥०३-२१५-८॥
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश। जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ॥०३-२१५-९॥
षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम्। शक्त्या देव्याः साधनं च तथा पारिषदामपि ॥०३-२१५-१०॥
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै। तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः ॥०३-२१५-११॥
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः। अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः ॥ श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् ॥०३-२१५-१२॥
स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन्। अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् ॥०३-२१५-१३॥
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति। त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः ॥०३-२१५-१४॥
स तानुवाच व्यथितो बालोऽयं सुमहाबलः। स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ॥०३-२१५-१५॥
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः। कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ॥०३-२१५-१६॥
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः। अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः ॥०३-२१५-१७॥
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत्। अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः ॥०३-२१५-१८॥
ताः सम्पूज्य महासेनः कामांश्चासां प्रदाय सः। अपश्यदग्निमायान्तं पितरं बलिनां बली ॥०३-२१५-१९॥
स तु सम्पूजितस्तेन सह मातृगणेन ह। परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् ॥०३-२१५-२०॥
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा। धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत ॥०३-२१५-२१॥
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना। परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥०३-२१५-२२॥
अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः। रमयामास शैलस्थं बालं क्रीडनकैरिव ॥०३-२१५-२३॥