03.216
मार्कण्डेय उवाच॥
ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा। हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः ॥०३-२१६-१॥
एते चान्ये च बहवो घोरास्त्रिदिववासिनः। परिवार्य महासेनं स्थिता मातृगणैः सह ॥०३-२१६-२॥
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः। आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ॥ विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ॥०३-२१६-३॥
उग्रं तच्च महावेगं देवानीकं महाप्रभम्। विचित्रध्वजसंनाहं नानावाहनकार्मुकम् ॥ प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम् ॥०३-२१६-४॥
विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात्। विनदन्पथि शक्रस्तु द्रुतं याति महाबलः ॥ संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् ॥०३-२१६-५॥
सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः। समीपमुपसम्प्राप्तः कार्त्तिकेयस्य वासवः ॥०३-२१६-६॥
सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः। गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा ॥०३-२१६-७॥
तस्य शब्देन महता समुद्धूतोदधिप्रभम्। बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् ॥०३-२१६-८॥
जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा स पावकिः। विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ॥ ता देवसैन्यान्यदहन्वेष्टमानानि भूतले ॥०३-२१६-९॥
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः। प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ॥०३-२१६-१०॥
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्। देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः ॥०३-२१६-११॥
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत्। तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् ॥ बिभेद च महाराज पार्श्वं तस्य महात्मनः ॥०३-२१६-१२॥
वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः। युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः ॥ यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ॥०३-२१६-१३॥
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम्। भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः ॥०३-२१६-१४॥
तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम। ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ॥०३-२१६-१५॥