03.217
मार्कण्डेय उवाच॥
स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान्। वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः ॥ ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ॥०३-२१७-१॥
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः। कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् ॥०३-२१७-२॥
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा। वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः ॥०३-२१७-३॥
मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः। ततः कुमारपितरं स्कन्दमाहुर्जना भुवि ॥०३-२१७-४॥
रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम्। यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः ॥०३-२१७-५॥
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः। किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषत ॥०३-२१७-६॥
मातर ऊचुः॥
भवेम सर्वलोकस्य वयं मातर उत्तमाः। प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ॥०३-२१७-७॥
मार्कण्डेय उवाच॥
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः। अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः ॥०३-२१७-८॥
ततः सङ्कल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत्। काकी च हलिमा चैव रुद्राथ बृहली तथा ॥ आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः ॥०३-२१७-९॥
एतासां वीर्यसम्पन्नः शिशुर्नामातिदारुणः। स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः ॥०३-२१७-१०॥
एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः। छागवक्त्रेण सहितो नवकः परिकीर्त्यते ॥०३-२१७-११॥
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्। षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥०३-२१७-१२॥
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते। शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥०३-२१७-१३॥
इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्। तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥०३-२१७-१४॥