Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.218
मार्कण्डेय उवाच॥
उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम्। हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् ॥०३-२१८-१॥
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम्। सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम् ॥०३-२१८-२॥
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्। अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥०३-२१८-३॥
श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा। निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥०३-२१८-४॥
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम्। इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥०३-२१८-५॥
हिरण्यवर्ण भद्रं ते लोकानां शङ्करो भव। त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥०३-२१८-६॥
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम। तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः ॥०३-२१८-७॥
स्कन्द उवाच॥
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः। कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥०३-२१८-८॥
ऋषय ऊचुः॥
इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम्। तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः ॥०३-२१८-९॥
दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति। अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥०३-२१८-१०॥
असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः। भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः ॥०३-२१८-११॥
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्। त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः ॥०३-२१८-१२॥
शक्र उवाच॥
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः। अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥०३-२१८-१३॥
स्कन्द उवाच॥
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः। अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम् ॥०३-२१८-१४॥
शक्र उवाच॥
बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि। अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः ॥०३-२१८-१५॥
इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम्। आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ॥०३-२१८-१६॥
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति। द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ॥०३-२१८-१७॥
विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल ॥०३-२१८-१७॥
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि। तस्मादिन्द्रो भवानद्य भविता मा विचारय ॥०३-२१८-१८॥
स्कन्द उवाच॥
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च। करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे ॥०३-२१८-१९॥
शक्र उवाच॥
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया। यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ॥०३-२१८-२०॥
अभिषिच्यस्व देवानां सेनापत्ये महाबल। अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ॥०३-२१८-२१॥
स्कन्द उवाच॥
दानवानां विनाशाय देवानामर्थसिद्धये। गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् ॥०३-२१८-२२॥
मार्कण्डेय उवाच॥
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह। अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥०३-२१८-२३॥
तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत। यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥०३-२१८-२४॥
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी। आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥०३-२१८-२५॥
आगम्य मनुजव्याघ्र सह देव्या परन्तप। अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥०३-२१८-२६॥
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः। रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ॥ पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥०३-२१८-२७॥
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः। रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् ॥०३-२१८-२८॥
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः। तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥०३-२१८-२९॥
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा। जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥०३-२१८-३०॥
अरजे वाससी रक्ते वसानः पावकात्मजः। भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् ॥०३-२१८-३१॥
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः। रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः ॥०३-२१८-३२॥
विवेश कवचं चास्य शरीरं सहजं ततः। युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥०३-२१८-३३॥
शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः। ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ॥०३-२१८-३४॥
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्। स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥०३-२१८-३५॥
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलङ्कृतः। बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥०३-२१८-३६॥
इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि। देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥०३-२१८-३७॥
एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलङ्कृतैः। क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः ॥०३-२१८-३८॥
अभिषिक्तं महासेनमपश्यन्त दिवौकसः। विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा ॥०३-२१८-३९॥
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः। अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् ॥०३-२१८-४०॥
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः। अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि ॥०३-२१८-४१॥
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा। सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥०३-२१८-४२॥
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्। इति चिन्त्यानयामास देवसेनां स्वलङ्कृताम् ॥०३-२१८-४३॥
स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम। अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा ॥०३-२१८-४४॥
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम्। गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् ॥०३-२१८-४५॥
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि। बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च ॥०३-२१८-४६॥
एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः। षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् ॥ सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् ॥०३-२१८-४७॥
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया। तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥०३-२१८-४८॥
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता। षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः ॥०३-२१८-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.