03.219
मार्कण्डेय उवाच॥
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्। सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ॥०३-२१९-१॥
ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः। द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥०३-२१९-२॥
वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः। अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः ॥०३-२१९-३॥
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्। असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥०३-२१९-४॥
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो। त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥०३-२१९-५॥
स्कन्द उवाच॥
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः। यच्चाभीप्सथ तत्सर्वं सम्भविष्यति वस्तथा ॥०३-२१९-६॥
मार्कण्डेय उवाच॥
एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत्। उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः ॥०३-२१९-७॥
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा। इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥०३-२१९-८॥
तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्। कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥०३-२१९-९॥
धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः। रोहिण्याद्योऽभवत्पूर्वमेवं सङ्ख्या समाभवत् ॥०३-२१९-१०॥
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः। नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥०३-२१९-११॥
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः। इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥०३-२१९-१२॥
स्कन्द उवाच॥
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्। स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥०३-२१९-१३॥
मार्कण्डेय उवाच॥
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्। वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ॥ इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥०३-२१९-१४॥
स्कन्द उवाच॥
मातरस्तु भवत्यो मे भवतीनामहं सुतः। उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥०३-२१९-१५॥
मातर ऊचुः॥
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः। अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ॥०३-२१९-१६॥
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ। प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥०३-२१९-१७॥
स्कन्द उवाच॥
दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम्। अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ॥०३-२१९-१८॥
मातर ऊचुः॥
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः। त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥०३-२१९-१९॥
स्कन्द उवाच॥
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम्। परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः ॥०३-२१९-२०॥
मातर ऊचुः॥
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि। त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ॥०३-२१९-२१॥
स्कन्द उवाच॥
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः। प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥०३-२१९-२२॥
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्। परमं तेन सहिता सुखं वत्स्यथ पूजिताः ॥०३-२१९-२३॥
मार्कण्डेय उवाच॥
ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः। भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥०३-२१९-२४॥
अपतत्स तदा भूमौ विसञ्ज्ञोऽथ क्षुधान्वितः। स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ॥ स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः ॥०३-२१९-२५॥
विनता तु महारौद्रा कथ्यते शकुनिग्रहः। पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ॥०३-२१९-२६॥
कष्टा दारुणरूपेण घोररूपा निशाचरी। पिशाची दारुणाकारा कथ्यते शीतपूतना ॥ गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥०३-२१९-२७॥
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः। सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः ॥०३-२१९-२८॥
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्। अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा ॥०३-२१९-२९॥
कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसम्भवाः। तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ॥०३-२१९-३०॥
तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः। अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः ॥०३-२१९-३१॥
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप। शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ॥०३-२१९-३२॥
सरमा नाम या माता शुनां देवी जनाधिप। सापि गर्भान्समादत्ते मानुषीणां सदैव हि ॥०३-२१९-३३॥
पादपानां च या माता करञ्जनिलया हि सा। करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ॥०३-२१९-३४॥
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः। द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ॥०३-२१९-३५॥
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा। भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ॥०३-२१९-३६॥
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति। ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ॥०३-२१९-३७॥
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा। उपविष्टं ततो गर्भं कथयन्ति मनीषिणः ॥०३-२१९-३८॥
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता। लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ॥०३-२१९-३९॥
पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि। आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ॥०३-२१९-४०॥
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः। यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः ॥०३-२१९-४१॥
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः। सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ॥०३-२१९-४२॥
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्। बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः ॥०३-२१९-४३॥
एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्। आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः ॥०३-२१९-४४॥
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम्। तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥०३-२१९-४५॥
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा। उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥०३-२१९-४६॥
आसीनश्च शयनश्च यः पश्यति नरः पितॄन्। उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥०३-२१९-४७॥
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम्। उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥०३-२१९-४८॥
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान्। उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥०३-२१९-४९॥
गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि। उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥०३-२१९-५०॥
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये। उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥०३-२१९-५१॥
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित्। उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः ॥०३-२१९-५२॥
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः। उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥०३-२१९-५३॥
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्। उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् ॥०३-२१९-५४॥
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः। अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥०३-२१९-५५॥
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्। अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ॥०३-२१९-५६॥
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्। आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः ॥०३-२१९-५७॥
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः। न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥०३-२१९-५८॥