Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.220
मार्कण्डेय उवाच॥
यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम्। अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ॥०३-२२०-१॥
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्। तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥०३-२२०-२॥
स्वाहोवाच॥
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज। बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ॥०३-२२०-३॥
न च मां कामिनीं पुत्र सम्यग्जानाति पावकः। इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ॥०३-२२०-४॥
स्कन्द उवाच॥
हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रपुरस्कृतम्। होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् ॥०३-२२०-५॥
अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः। एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने ॥०३-२२०-६॥
मार्कण्डेय उवाच॥
एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता। पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ॥०३-२२०-७॥
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्। अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ॥०३-२२०-८॥
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया। हितार्थं सर्वलोकानां जातस्त्वमपराजितः ॥०३-२२०-९॥
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना। आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः ॥०३-२२०-१०॥
सम्भूतं लोहितोदे तु शुक्रशेषमवापतत्। सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि ॥ आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् ॥०३-२२०-११॥
त एते विविधाकारा गणा ज्ञेया मनीषिभिः। तव पारिषदा घोरा य एते पिशिताशनाः ॥०३-२२०-१२॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्। अपूजयदमेयात्मा पितरं पितृवत्सलः ॥०३-२२०-१३॥
अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः। व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् ॥०३-२२०-१४॥
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम्। नमस्कार्यं सदैवेह बालानां हितमिच्छता ॥०३-२२०-१५॥
स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः। वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ॥०३-२२०-१६॥
एवमेते पिशाचानामसङ्ख्येया गणाः स्मृताः। घण्टायाः सपताकायाः शृणु मे सम्भवं नृप ॥०३-२२०-१७॥
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते। गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता ॥०३-२२०-१८॥
एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा। पताका कार्त्तिकेयस्य विशाखस्य च लोहिता ॥०३-२२०-१९॥
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा। तैरेव रमते देवो महासेनो महाबलः ॥०३-२२०-२०॥
स संवृतः पिशाचानां गणैर्देवगणैस्तथा। शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः ॥०३-२२०-२१॥
तेन वीरेण शुशुभे स शैलः शुभकाननः। आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ॥०३-२२०-२२॥
सन्तानकवनैः फुल्लैः करवीरवनैरपि। पारिजातवनैश्चैव जपाशोकवनैस्तथा ॥०३-२२०-२३॥
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि। दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ॥०३-२२०-२४॥
तत्र देवगणाः सर्वे सर्वे चैव महर्षयः। मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ॥०३-२२०-२५॥
तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा। हृष्टानां तत्र भूतानां श्रूयते निनदो महान् ॥०३-२२०-२६॥
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्। प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ॥०३-२२०-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.