03.225
घोषयात्रापर्व
जनमेजय उवाच॥
एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः। सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः ॥०३-२२५-१॥
वैशम्पायन उवाच॥
सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम्। वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः ॥०३-२२५-२॥
तथा वने तान्वसतः प्रवीरा; न्स्वाध्यायवन्तश्च तपोधनाश्च। अभ्याययुर्वेदविदः पुराणा; स्तान्पूजयामासुरथो नराग्र्याः ॥०३-२२५-३॥
ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान्। स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत् ॥०३-२२५-४॥
अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन। प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च ॥०३-२२५-५॥
कृशांश्च वातातपकर्शिताङ्गा; न्दुःखस्य चोग्रस्य मुखे प्रपन्नान्। तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् ॥०३-२२५-६॥
ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः। वने स्थितान्पार्थिवपुत्रपौत्रा; ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ॥०३-२२५-७॥
प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान्। वाचं कथञ्चित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य ॥०३-२२५-८॥
कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः। अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी ॥०३-२२५-९॥
प्रबोध्यते मागधसूतपूगै; र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः। पतत्रिसङ्घैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः ॥०३-२२५-१०॥
कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः। शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः ॥०३-२२५-११॥
तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः। विदूयमानैरिव सर्वगात्रै; र्ध्रुवं न शेते वसतीरमर्षात् ॥०३-२२५-१२॥
यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान्। विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् ॥०३-२२५-१३॥
तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव। प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ ॥०३-२२५-१४॥
समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान्। स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥०३-२२५-१५॥
स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः। सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥०३-२२५-१६॥
अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत्। तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि ॥०३-२२५-१७॥
न पापकं ध्यास्यति धर्मपुत्रो; धनञ्जयश्चाप्यनुवर्तते तम्। अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन ॥०३-२२५-१८॥
स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः। विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् ॥०३-२२५-१९॥
गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ। न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् ॥०३-२२५-२०॥
दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः। मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनञ्जयं च ॥०३-२२५-२१॥
शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता। स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥०३-२२५-२२॥
क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम्। न स्यात्फलं तस्य कुतः प्रसिद्धि; रन्यत्र दैवादिति चिन्तयामि ॥०३-२२५-२३॥
कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन। मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः ॥०३-२२५-२४॥
ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या। ध्रुवं दिनादौ रजनीप्रणाश; स्तथा क्षपादौ च दिनप्रणाशः ॥०३-२२५-२५॥
क्रियेत कस्मान्न परे च कुर्यु; र्वित्तं न दद्युः पुरुषाः कथञ्चित्। प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् ॥०३-२२५-२६॥
कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम्। अरक्ष्यमाणः शतधा विशीर्ये; द्ध्रुवं न नाशोऽस्ति कृतस्य लोके ॥०३-२२५-२७॥
गतो ह्यरण्यादपि शक्रलोकं; धनञ्जयः पश्यत वीर्यमस्य। अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥०३-२२५-२८॥
स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत्। अन्यत्र कालोपहताननेका; न्समीक्षमाणस्तु कुरून्मुमूर्षून् ॥०३-२२५-२९॥
धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम्। अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु ॥०३-२२५-३०॥
निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च। अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः ॥०३-२२५-३१॥