Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.226
वैशम्पायन उवाच॥
धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः। दुर्योधनमिदं काले कर्णो वचनमब्रवीत् ॥०३-२२६-१॥
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत। भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा ॥०३-२२६-२॥
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः। कृताः करप्रदाः सर्वे राजानस्ते नराधिप ॥०३-२२६-३॥
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा। साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥०३-२२६-४॥
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे। अपश्याम श्रियं राजन्नचिरं शोककर्शिताः ॥०३-२२६-५॥
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात्। त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥०३-२२६-६॥
तथैव तव राजेन्द्र राजानः परवीरहन्। शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥०३-२२६-७॥
तवाद्य पृथिवी राजन्निखिला सागराम्बरा। सपर्वतवना देवी सग्रामनगराकरा ॥ नानावनोद्देशवती पत्तनैरुपशोभिता ॥०३-२२६-८॥
वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः। पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥०३-२२६-९॥
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः। कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥०३-२२६-१०॥
ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न। पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥०३-२२६-११॥
श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति। वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥०३-२२६-१२॥
स प्रयाहि महाराज श्रिया परमया युतः। प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥०३-२२६-१३॥
स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः। असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥०३-२२६-१४॥
महाभिजनसम्पन्नं भद्रे महति संस्थितम्। पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ॥०३-२२६-१५॥
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते। पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ॥०३-२२६-१६॥
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते। जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ॥०३-२२६-१७॥
न पुत्रधनलाभेन न राज्येनापि विन्दति। प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ॥०३-२२६-१८॥
किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम्। अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥०३-२२६-१९॥
सुवाससो हि ते भार्या वल्कलाजिनवाससम्। पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः ॥ विनिन्दतां तथात्मानं जीवितं च धनच्युता ॥०३-२२६-२०॥
न तथा हि सभामध्ये तस्या भवितुमर्हति। वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः ॥०३-२२६-२१॥
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह। तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ॥०३-२२६-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.